पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] एकजवा ज्ञान कल्पितत्वोपपत्तिः चेका; 'अनादिमायया सुप्तो यदा जीवः प्रबुध्यते' इत्यादिभुति- ब्वेकवचनप्रासैकत्वविरोधेनोदाहृतश्रुतीनामनेकत्वपरत्वाभावात् । सार्वजनीन भ्रमसिद्धतदनुवादेनाविरोधात् । न चोदाहृतश्रुति- i 351 , जनकधीप्रयोजक वैलक्षण्यं स्वीक्रियते, न तु कस्यचिदेव क्रममुक्तिप्रयो- जकवैलक्षण्यम् । तथाच कदाचित्कुत्रचिन्मनसि तत्त्वधीः सर्वमुक्तिप्रयो- जिका श्रवणादिना तादृशादृष्टादिना च मिळित्वा प्रयुज्यते; वामदेव- मुक्तत्वादिश्रुतेरिव 'ब्रह्मणा सहे 'त्यादेरुपासनास्तावकत्वेन कल्पान्ते मुक्तिबोधकत्वाभावात् उक्तलाघवानुगृही तैकजीव श्रुत्यनुरोधात्, मनो- वच्छिन्नानां (चित्त्वे नानाजीवत्वे हस्तपादाद्यवच्छिन्नानां ) चित्त्वेनापि तेषां तदापत्तेः । यदपि बन्धतत्त्वज्ञानमोक्षावच्छेदकत्वेन मनसां जीव- भेदकत्वमिति, तदपि न ; अविद्यातन्नाशयोर्बन्धमोक्षयोर्मनोऽनवच्छिन्न- त्वात् । ज्ञानावच्छेदकभेदस्तु न जीवभेदप्रयोजकः; हस्तादिरूपाव- च्छेदकभेदस्यापि तत्त्वापत्तेर्मानाभावाच्च । एकवचनेति । 'साक्षी चेतेत्यादिवाक्यशेषाद्देवपदं पुरत्रये क्रीडकपरम् । अज्ञानावृतवास्त- वस्वरूपकत्वेन गूढ इति भावः । इत्यादिश्रुतीत्यादिपदेन 'पुरत्रये क्रीडति यस्तु जीव: ' 'प्रविश्यामूढो मूढ इव व्यवहरन्नास्ते, ' ' स एष इह प्रविष्ट आनखाग्रेभ्यः,’ 'मायया सन्निरुद्धः' इत्यादिश्रुतिः, ‘देही कर्मानुगोऽवशः,' 'विहाय जीर्णान्यन्यानि गृह्णाति नवानी ' त्यादिस्मृ- तिश्च प्राया । अनेकत्वपरत्वेति । जीवानेकत्व परत्वेत्यर्थः । तदनु- वादेन जीवानेकत्वानुवादेन । वस्तुतोऽविद्यान्तरे वर्तमानत्वमविद्या- प्रयुक्तसुखदुःखाभिमानत्वम् । अत एव 'पण्डितं मन्यमाना' इत्यादि शेषः । तथाचाविद्यान्तरे वर्तमानत्वं रमणीयचरणत्वं सति लीनोपाधिकत्वं चैतन्त्रयं मनोवच्छिन्नस्यैव । 'सति सम्पद्य न विदुः सति सम्पद्यामह ' इति बेतृत्त्वाभावस्तु तादृशस्मर्तृत्वाभावरूपः, अन्यथा सम्पद्यमाना 6