पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

352 सव्याख्यायामद्वैतसिद्धौ [प्रथमः विरोधेन 'इति सृष्टौ विनिश्चिता' इति पूर्वेण ' स पूज्य: सर्वभूताना ' मित्युत्तरेण च विरोधेनेदमेकवचनं 'यदा नीतिपरो राजा' 'स्वर्गकामो यजेते. त्यादिवनैकत्वपरमित्येव किंन स्या- दिति वाच्यम् ; प्रत्यक्त्वपराक्त्वमहमित्यादिव्यवहारप्रयोजका- न्तःकरणाभेदाभ्यासबलाद्वहुत्वस्य प्राप्तत्वेन पूर्वोत्तरवाक्योदा- हृतश्रुत्यादीनामतत्परत्वात् । न च – मुक्तबहुत्वं नान्यतः प्राप्त - मिति वाच्यम्; जीवबहुत्वस्य प्राप्तत्वेन मुक्त्यंश एवा- प्राप्तत्वपर्यवसानात् । न चैकस्यैव जीवस्य सर्वकल्पकत्वे जीवस्य कारणत्वं निषिध्य ईश्वरकारणत्वविधायकैः श्रुत्यादिभि - विरोधः, अविद्याचिन्मात्राश्रयत्वोपपादने निरसिष्यमाणत्वात् । न चैवम् – सर्वज्ञत्वसर्वकर्तृत्वादिबोधकश्रुतीनां निर्विषयत्वम्; शुद्धचैतन्ये सव' स्यैवाभावात्, ईश्वरस्य च जीवभिन्नस्याभा- बात्, जीवे सार्वश्यस्यानुभवबाधितत्वादिति – वाच्यम्; - - इत्युच्येत । तथाच मनोवच्छिन्नताकाल एव साक्षिणस्तदुक्तिः । एवं सुनिश्चितार्थत्वं मनोऽवच्छिन्नस्य परिमुक्तिरपि दुःखादिशून्यत्वरूपा दुःखादिशून्यशुद्धाभेदविवक्षया तम्यैवेति तस्यैव नानात्वमुक्तवाक्यैरुक्तम्, न तु जीवस्याविद्योपहितस्येति ध्येयम् । गौडपादीये 'अनादिमायये ' त्यादिवाक्ये स्वर्गकाम इति यजेतेत्याख्यातैकवचनस्योपादेयकत्रैक्य परत्वेऽपि स्वर्गकाम इत्युद्देशवाचकपदोत्तरं सुबेकवचनम विवक्षितार्थक- मेव । अत एव पुंस्त्वस्याविवक्षितत्वात् स्त्रिया अप्यधिकारः षष्ठे उक्तः ॥ अतत्परत्वात् । एकत्वश्रुत्यादिकं तु तत्परम् एकत्वस्या- 1 सर्वशत्व.