पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

350 सव्याख्यायामद्वैत सिद्धौ [प्रथमः -- द्वितीयः; इष्टापत्तेः । अत एव – चैत्रस्य शुक्तिसाक्षात्कारण रजतनमनिवृत्तावन्येषामपि तभिवृत्तिः स्यादिति - निरस्तम् ; अन्तःकरणभेदेन व्यवस्थोपपत्तेः । नन्वेवम् – मुक्तावपि चैत्रा- धन्यतमान्तःकरणावच्छेदेन साक्षात्कारे उत्पने तदवच्छेदेनैव संसारनिवृत्तिः स्यात्, न तु तदितरान्तःकरणावच्छेदेनेति- चेन; तत्साक्षात्कारस्य सविलासमूलाज्ञाननिवृत्तिरूपतया त- स्कालेऽन्तःकरणस्याभावेन वैषम्यात् । ननु – श्रुतिषु 'अविद्या- यामन्तरे वर्तमाना' इत्यादावविद्या, 'रमणीयचरणा' इत्यादौ कर्मबन्धः, 'सति सम्पद्य न विदु' रित्यादौ सति सुषुप्तिः, 'वेदान्तविज्ञानसुनिश्चितार्था' इत्यादौ तस्त्रज्ञानं 'परामृतात्परि-. मुच्यन्ति सर्व' इत्यादौ मुक्तिश्च चेतनधर्मः कथमनेकेषूच्यत इति - वैषम्यादिति | पल्लवाज्ञान तत्तन्मनोऽवच्छिन्नत्वेन तत्तन्मनःपरिणाम- ज्ञानेन निवृत्तिः, मूलाज्ञानस्य त्वनवच्छिन्नत्वेन किंचिन्मनःपरिणाम- ज्ञानेन निवृत्तौ सर्वदृश्यनिवृत्त्या मनोन्तरमेव दुर्लभम्, दूरतस्तत्र संसारापत्तिः, प्रारब्धकर्मसत्त्वे तु मनोऽन्तरे संसार इष्टस्तत्त्वज्ञानावच्छे- दकमनसीवेति भावः ॥ यत्तु - सर्वाभिमानिनो हिरण्यगर्भस्य जीवस्य स्वीकारे तस्य कल्पान्ते मुक्तयापत्ति: ' तदन्यजीवस्वीकारे तु नानाजीववादापत्तिः, तत्तन्मनोवच्छिन्नानां तु चित्त्वे नानाजीवत्वापत्तिः, अचित्त्वे जगदा- न्ध्यापतिरिति -- तन्न; सकलस्थूलसूक्ष्मसमष्टयभिमानाश्रयस्यैकस्यैव जीवस्यो क्तत्वेन हिरण्यगर्भस्य च सूक्ष्मसमष्टिमात्राभिमानिनो जीवत्वा- भावात्, कल्पान्ते तन्मुक्तयस्वीकाराञ्च | सगुणब्राहमहोपासनाया ब्रह्मलोकप्राप्तिजनकमदृष्टं चित्तैकामधं च फलम् तस्य च सर्वमुक्ति 1 ज्ञानस्य - ग 2 मुतपा सर्वमुक्तपापत्तिः- ग. ● -