पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] एकजीवाज्ञानकल्पितत्वोपपत्तिः सिद्धान्त बिन्दुकल्पलतिकादावस्माभिरभिहितम् । वासिष्ठवार्ति- कामृतादावाकरे च स्पष्टमेवोक्तम् । यथा- 347 अविद्यायोनयों भावाः सर्वेऽमी बुहुदा इव । क्षणमुद्रय गच्छन्ति ज्ञानेकजलधौ लयम् ।। इत्यादि । तस्माद्ब्रह्मातिरिक्तं कृत्स्नं द्वैतजातं ज्ञानज्ञेयरूप- माविद्यकमेवेति प्रातीतिकसम्वं सर्वस्येति सिद्धम् || रज्जुसर्पादिवद्विश्वं नाज्ञातं सदिति स्थितम् । प्रबुद्धदृष्टिसृष्टित्वात्सुषुप्तौ च लयभुतेः ॥ इत्यद्वैतसिद्धौ दृष्टिसृष्टयुपपत्तिः. अथ एकजीवाज्ञानकल्पितत्वोपपत्तिः || - सच द्रष्टेक एव; तन्नानात्वे मानाभावात् । ननु - कथमेक एव जीव: १ प्रतिशरीरं 'अहं सुखी अहं दुःखी अहं संसारी अहमस्वाप्स' मित्याद्यनुभवविरोधादिति – चेन्न; अवि- द्यावशाकं संसरति । स एव जीवः । तस्यैव प्रतिशरीर- महमित्यादिबुद्धिः । स्वामशरीरे 'अयं सुखी अयं दुःखीत्येव चाक्षुषत्वादिधर्मस्वी कारादित्यादिरूपमिति शेषः । द्वैतजातम् जातं द्वैतम् ।। तर्कैः सारस्वतै रनैश्चन्द्रिकाचन्द्रभूषणैः । दुरन्तध्वान्तनाशाय दृष्टिसृष्टयुपपादनम् || इत्यद्वैतासद्धिव्याख्यायां गुरुचन्द्रिकायां दृष्टिसृष्टयुपपतिः ॥