पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

348 सव्याख्यायामद्वैतसिद्धौ [प्रथमः यत्र बुद्धिर्न त्वहं सुखीत्यादि' तत्तु निर्जीवम् । यत्र त्वहमि- त्यादि तत्सजीवम् । जाग्रच्छरीरान्तरे अहमिति प्रतीत्यवच्छेदके सजीवतोक्तिर्न द्वितीयेन जीवेन सजीवत्वमित्यभिप्रेत्य; तत्र मानाभावात् । (बन्धमोक्षादिव्यवस्थानुपपत्तिस्तत्र मानमिति चेक; बन्धमोक्षगुरुशिष्यादिव्यवस्थायाः स्वप्नवद्यावदविद्यमुप- पत्तेः । न चैवं तस्मिन्नेकस्मिन्नेव जीवे सुप्ते समस्तजगदप्रती- त्यापातः; समष्टयभिमानिनो मुख्यजीवस्यासुप्तत्वात् । तस्मिन् लयकाले प्रसुप्ते जगदप्रतीतेः । अन्तःकरणावच्छिन्ने जीवाभासे तु सुप्ते तमेव प्रति जगदप्रतीतिः, न त्वन्यानपि प्रति; तदुपा- धीनामप्रलीनत्वात् । संस्कारस्य कारणात्मना स्थितेर्न सुप्तस्य . पुनरुत्थानानुपपत्तिरित्युक्तम् । एतेन – मम कल्पकत्वे तव मोक्षार्थ प्रवृत्त्ययोगः; तव कल्पकत्वे त्वत्कल्पितास्मदादिबोधार्थ तब शब्दप्रयोगाद्यनुपपत्तिः, न च स्वप्नवत्पर्यनुयोगायोगः; एवमपर्यनुयोज्यत्वे निर्मर्यादतया कथानधिकारप्रसङ्गादिति- निरस्तम् ; चैत्रमैत्रादिसर्वाभिमानिनो जीवस्य कल्पकत्वेन तव ममेत्यादिविकल्पानुपपत्तेः । नापि स्वक्रियादिविरोधः; स्वक्रि- यायाः कल्पितत्वादिनिश्चयविरहकालनित्वेन पर्यनुयोगायोगात् । अथ एकजीवाज्ञानकल्पितत्वोपपत्तिः ॥ निर्जीवम् जीवावच्छेदकमनः सुखाद्यनवच्छेदकम् । सजीवम् उक्तान्यत् । समष्टयाभमानिनः तत्तन्मनोवच्छिन्नानां तत्तद्देहाद्यभिमाना- नामाश्रयस्य । लयकाले प्रळयकाले । तमेव – तन्मनोवच्छिन्नमेव तदुपार्थानां तत्तन्मनसाम् । कल्पकत्वेन मनस्तत्परिणाममात्रद्रष्टृत्वेन । स्वक्रियेति । उक्तशब्दप्रयोगादीत्यर्थः । कल्पितत्वादीत्यादिना-