पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [ प्रथमः भाष्यकारादिभिश्च स्थूलाधिकारिणं प्रति तथा व्याख्यानात्, ऊर्णनाभ्यादेस्तन्त्वादिजन्मोत्पत्तिस्तु लौकिकभ्रमसिद्धकार्यकार- णभावप्रसिद्धिमनुरुद्वय । सर्वलोकादिसृष्टिश्च तत्तदृष्टिव्यक्तिमभि- प्रेत्य; यदा यत्पश्यति तत्समकालं तत्सृजतीत्यत्र तात्पर्यात् । न चाविद्यासहकृतजीवकारणकत्वे जगद्वैचित्रयानुपपत्तिः; जग- दुपादानस्याज्ञानस्य विचित्रशक्तिकत्वात् । उपपत्त्यन्तरं चात्र 346 चेश्वरपरत्व प्रसिद्धिविरोधः; 'क्षेत्रज्ञ आत्मा पुरुष' इति प्रत्यगात्मन्येव तत्प्रसिद्धेः । स्थूलाधिकारिणमिति । उक्तं हि शारीरकसंक्षेपे ---- तत्त्वावेदकमानदृष्टिरमा तत्त्वक्षतिर्मध्यमा तत्त्वप्रच्युतिविभ्रमक्षतिकरी तत्रान्त्यदृष्टिर्मता । जी वैकत्वमुमुक्षुभेदगतितो व्यामिश्रदृष्टिर्द्विधा भिन्ना तत्र च पूर्वपूर्वविलया दूर्ध्वोऽर्ध्वलब्धिर्भवेत् ॥ इति । प्रत्यक्षादिमानानां तत्त्वावेदकत्वदृष्टिराद्या. तेषां व्यावहारिक- मानत्वदृष्टिर्द्वितीया, तत्त्वप्रच्युतेर्व्यावहारिकमानत्वस्य प्रत्यक्षादौ शुक्ति- रूप्यादिबुद्धाविव विभ्रमत्वदृष्ट्या क्षतिकरी जन्यदृश्यमात्रे प्रातीतिकत्व- दृष्टिपर्यवसिता तृतीया, सापि जीवैकत्वे मुमुक्षुभेदाद्गमनाद्विविधा व्यावहारिकत्वाभावभ्रमत्वविषयकत्वेन व्यामिश्रा दृष्टिः । पूर्वपूर्वविलया- दिति । मुमुक्षुभेददृष्टेः पश्चादुक्तावप्यार्थिकं पूर्वत्वं बोध्यम् । उप- पत्त्यन्तरमिति । अज्ञायमानतादशायां पृथिव्यादावनन्तसंयोगा- दिकमिन्द्रियतत्क्रियासंयोगादिकं तस्य प्रत्यक्षहेतुत्वं प्रातीतिकव्याव- हारिक योर्मिथो व्यावृत्तरूपेणान्यत्र हेतुत्वादिकं च न कल्प्यते । ज्ञानहेतुत्वस्थले विषयस्यैव हेतुत्वं जन्यज्ञानाकल्पनं चेति लाघवम् । ' घटं पश्यामी' त्यादिप्रत्यये च घटाभिन्नचाक्षुषादिविषयो घटादावेव