पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ प्रथमः दिहेतुत्रयजन्यत्वरूपाध्यासतटस्थलक्षणस्य च मन्दाधिकारिविष- यत्वात् । सत्यस्य वस्तुनो मिथ्यावस्तुसंभेदावभास इति स्वरूप- लक्षणं तु दृष्टिसृष्टिपक्षेऽप्यविरुद्धम् । न हीदमंशावच्छिमं चैतन्यं न वस्तु; न वा मिथ्यारूप्यस्य तेन सह न संभेदावभासः । न च - इदं रूप्यमिति ज्ञानकाले शुक्तित्वादेरभावेनाध्यासस्य तदज्ञानकार्यत्वादिप्रक्रियाविरोध इति – वाच्यम्; इदं रूप्य- मिति ज्ञानकाले शुक्तित्वस्याभावेऽपि तदज्ञानस्थित्यविरोधात् । न हि सत्ताकाल इव सत्ताविरहकालेऽप्यज्ञानं विरुध्यते । न च-इदं रूप्यं नेदं रूप्यमिति ज्ञानयोर्भिन्नविषयत्वेन बाध्यबाध- कभावानुपपत्तिरिति-वाच्यम्; भिन्नविषयत्वेऽपि विषययोः सारून् इदमवच्छिन्नचितः । मन्दाधिकारीति । अधिकारिभेदकल्पिता हि प्रक्रियाभेदाः शास्त्राचार्यैरनूदिता इति भावः । यद्यपीदं रजत- मित्यादावधिष्ठान रूपेदमाकारा वृत्तिः पूर्व संभवति, सृष्टदृष्टिपक्ष इव पूर्वजातायास्तस्या रूप्या कारवृत्तिकालानुवृत्तिसंभवात् ; तथापीदं रूप्यमित्याकारैकैव विशिष्टगोचरा वृत्तिर्लाघवात्, अधिष्ठानज्ञानहेतु- त्वपक्षे तु वृत्तिद्वयस्वीकारादेव न दोषः । चैतन्यं न वस्त्विति । उपाघेर्मिथ्यात्वेऽप्युपहितस्य स्वरूपं सत्यमिति भावः । स्थित्यविरो- धादिति । भाविनि सृष्टदृष्टिपक्षे ज्ञान विषयत्वस्येवाज्ञानविषयतावच्छे- दकत्वस्यापि स्वीकारादृष्टिसृष्टिपक्षे आद्यस्यास्वीकारेऽपि द्वितीयाविरोधा- दिति भावः । सत्ताकाल इति । दृष्टिसृष्टिपक्ष इत्यादिः । सत्ताकाले ज्ञानाज्ञानयोर्विरोधेऽपि तत्पूर्वकाले तज्ज्ञानाभावात्तदज्ञानं न विरुद्धम्; पक्षान्तर इव भाव्यवच्छेदेनाज्ञानानुभवसंभवात्तादृशज्ञानस्य कार्यान्य- थानुपपत्तिकल्प्यत्वाच्चेति भावः । भिन्नविषयत्वेऽपीत्यादि । पूर्वज्ञाने 1 विशिष्टागोचरा-ग. 336 सव्याख्यायामद्वैतसिद्धौ