पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारच्छेदः] दृष्टिसृष्ट चुपपत्तिः रुपपादितैव । नन्वेवं -प्रतीतिमात्र शरीरत्वेन नियतकारणाजन्यत्वे श्रुतिषु स्वर्गाद्यर्थ ज्योतिष्टोमादि विधेर्ब्रह्मसाक्षात्कारार्थं श्रवणा- दिविघेराकाशादेर्वाय्वादिहेतुत्वस्य चोक्तिरयुक्तेति चेन्न; स्वाम- कार्यकारणभावबोधकवाक्यवदुपपत्तेः । न चैवं वेदान्तवाक्य- स्य तन्मीमांसायाश्च स्वप्रवाक्यतन्मीमांसातुल्यतापत्तिः, विषय- बाधाबाधाभ्यां विशेषोपपत्तेः । अत एव – तृप्तयर्थ भोजने परप्रत्यायनार्थ शब्दादौ च प्रवृत्तेरयोगेन स्वक्रियाव्याघात इति — निरस्तम्; स्वामव्यवहारवदुपपत्तेः । अथैवं-घटादेः स्वज्ञानात्पूर्वमसत्त्वेन प्रतिकर्मव्यवस्थानुपपत्तिः; अधिष्ठान- स्यापि शुक्तीदमंशस्य रूप्यादिवत् इदं रजतमिति ज्ञाना- प्रागसश्चेन सम्प्रयोगादिहेतुत्रय जन्यत्वरूपाध्यासतटस्थलक्षणस्य सत्यस्य वस्तुनो मिथ्यावस्तुसंभेदावभास इत्यस्य स्वरूपलक्ष- णस्य चायोग इति – चेन्न; प्रतिकर्मव्यवस्थायाः सम्प्रयोगा- दृष्टिजन्यवृत्तेर्ज्ञातैकसत्त्वस्येत्यर्थः । अधिष्ठानसामान्यांशदृष्टेरारोप्यमात्र- हेतुत्वादुक्त दृष्टिजन्यत्वं जन्यमात्र म्याक्षतम् | द्रष्ट्रन्तरेत्यादि । दृष्टि- सृष्टिपक्षे पुरुषान्तरीयसुखादि न ज्ञायते, किंतु पुरुषान्तरीयत्वेन स्वस्मिन्नेव कल्प्यत इति भावः । सृष्टिविषये सृज्यमान एव या दृष्टिः सा अनाद्य- न्यत्र, न त्वनादौ स्वीक्रियते । अनादौ मिथ्यात्वसिद्धिस्तु दृश्यत्वादिनैव न तु दृष्टिसृष्टयेति भावः । विषयबाघेति । यत्तु - स्वप्ना विशेषे बाघाभा- वोऽप्यनुपपन्न इति – तन्न; दोषप्रयुक्ताप्रयुक्तत्वाभ्यां बाधाबाधयो रुपपत्तेः, अन्यथा ' अहमेवेदं सर्वोऽम्मी 'ति श्रुत्युक्त स्वप्न' तत्त्वविद्याया अपि बाघापत्तेः । उक्तं च शाबरमाध्ये- यस्य दुष्टं करणं यत्र च मिथ्येति प्रत्ययस्तद्धान्तिः, अन्यत्समीचीन 'मिति | सत्यस्य वस्तुनः 6 6 1 स्वप्न -ग. 335