पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्ध सत्वस्याज्ञातसत्त्वाभावस्य वा प्रतिपन्नोपाधिदृष्टिजन्यज्ञातैक- सत्त्वस्य वा, द्रष्ट्रन्तरावेद्यत्वे सति ज्ञातैकसन्त्वस्य वा विवक्षि- तत्वात् । तथा च न सुखाद्यंशे सिद्धसाधनम्, तद्वदन्यत्रार्था- न्तरं वा । ननु - 334 [ प्रथमः ‘जीव ईशो विशुद्धा चित्तथा जीवेशयोर्मिंदा । अविद्या तच्चितोर्योगः षडस्माकमनादयः ॥' इति प्राचां वचनेन बौद्धं प्रति प्रत्यभिज्ञानादिना विश्वस्य स्थायित्वप्रतिपादकेन च सूत्रभाष्यविवरणादिग्रन्थेन विरोध इति – चेन; अनाद्यतिरिक्तसृष्टिविषय एव दृष्टिसृष्टिस्वीकारात्, कारणात्मना स्थायित्वस्वीकाराञ्च | तावतैव बौद्धाभिमतक्षणि-. कत्वनिराकरणोपपत्तेर्नाकरविरोधः, प्रत्युताकरेषु बहुशो दृष्टिसृष्टि- -- अतो नाननुगमः । भ्रमत्वजातिमद्धीविषयत्वं वा दोषप्रयुक्तत्वम्, भ्रमत्वावच्छिन्नजनकतावच्छेदकजातिरविद्यात्वं वा दोषत्वं ग्राह्यम् । तथाच दोषप्रयुक्तत्वे सति ज्ञातैकसत्त्वं लक्षणम् । परमते सत्यस्य भ्रमाङ्गीकारेण सिद्धसाधनाद्धूमप्रागभाववदवैयर्थ्याच विशेष्य- दळम् । स्वज्ञानव्याप्यत्वं तदर्थः । व्याप्यत्वव्यापकत्वे कालिके न आये। ज्ञानमज्ञानशून्यचिद्रूपमपेक्ष्य लाघवादाह - अज्ञातसत्त्वाभाव- स्येति । स्वीयेनाज्ञानाभावेन व्याप्यत्वस्येत्यर्थः । निबन्धनस्येत्यन्त- मनुषज्यते । तस्य च पूर्वत्रेवात्रापि दोषप्रयुक्तवृत्तरित्यर्थः । पुरुषान्तर- वेद्ये च नाज्ञानम् ; मानाभावात् । यत्र हि यं पुरुषं प्रति प्रकाश- प्रसक्तिस्तत्र तस्याज्ञानं युक्तं तत्तत्पुरुषीयाज्ञानाभावव्याप्यत्वं तत्पुरुषं प्रति दृष्टिसृष्टिरिति बोध्यम् । परोक्षविषयसङ्ग्रहायासत्त्वापादका ज्ञानमेव लक्षणद्वयेऽपि निवेश्यम् । प्रतिपन्नेत्यादि । स्वप्रतिपत्तिविशेष्य- 1 न प्रयुक्तं -ग.