पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] दृष्टिसृष्टयुपपत्तिः 333 रिति वा, (२) दृष्टिव्यतिरिक्तसृष्टयभावो वा, (३) दृष्टि व्यतिरेकेण सृज्याभावो वा, (४) दृष्टिसामग्रीजन्यत्वं वा, (५) डष्टिसमानकालीनसृष्टिर्वा, (६) दृष्टिसमानसत्ताकसृष्टिर्वा, (७) सदसद्विलक्षणत्वं वा, (८) त्रिविघसन्चबहिर्भूतत्वे सत्य- सद्विलक्षणत्वं वा, (९) अज्ञातसत्त्वाभावो वा, (१०) ज्ञातैक- सत्वं वा । आद्ये वृत्तिरूपा चैतन्यरूपा वा दृष्टिरभिमता । प्रथमे चरमवृत्तिविषयब्रह्मणोऽपि दृष्टिसृष्टयापत्तिः । द्वितीये सर्वदापि सृष्ट्यापत्तिः । न द्वितीयः; चैत्रेण सृष्टो मया दृष्ट इति वैलक्षण्येन व्यवहारानुपपत्तेः । न तृतीयः : ज्ञातो घटो न ज्ञानमित्यनुभवविरोधात् । न चतुर्थः; एकसामग्रीप्रसूतत्वेन घटादेर्दृष्टयभिभत्वेनानन्तरोक्तदोषात् । न पञ्चमः; शाब्दादि- ज्ञानसमकालोत्पन्नघटादौ सिद्धसाधनात्तद्वदन्यत्रार्थान्तरतापत्तेश्च न षष्ठः; उभयसत्त्वेऽप्युपपत्तेः सिद्धसाधनात् । न सप्तमः; अस्यैव मिथ्यात्वरूपत्वेन तत्साधनायैव तदुपन्यासानुपपत्तेः । नाष्टमः; त्रिविधसत्त्वमध्ये प्रातिभासिकसवस्याप्यन्तर्भावेन दृष्टिसृष्टिपक्षे तद्वति जगति तद्बहिर्भावानुपपत्तेः । न नवमः; तुच्छसाधारण्यात् । न दशमः; सुखादौ सिद्धसाधनात्चंद्र- दन्यत्रार्थान्तराचेति – चेन्न; दोषप्रयुक्तत्वनिबन्धनस्य ज्ञातक- अथ दृष्टिसृष्टग्रुपपत्तिः. दृष्टथभिन्नत्व इति । दृष्टिभिन्नत्वे मानाभावात्सिद्धे इत्यादिः न चोक्तदोष एव भेदे मानमिति -- वाच्यम्; एकसामग्रीजत्वस्या मेदव्याप्यतयोक्तदोषवारणाय सामग्रीभेदस्यावश्यकत्वात् । तद्वहि र्भावेति । तच्छृन्यत्वेत्यर्थः । दोषेत्यादि । दोषत्वं तावदन्यतमत्वं 1 जन्गत्व-ग.