पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धी अथ दृष्टिसृष्टयुपपत्तिः. शुक्तिरूप्यस्वमादिवदृष्टिसृष्टयन्यथानुपपत्त्यापि जगतो मिथ्यात्वसिद्धिः । अथ केयं दृष्टिसृष्टि: १ (१) दृष्टिरेव सृष्टि- 332 [ प्रथमः संसारो ज्ञानाभेदादवधान

रूपज्ञाननिवर्त्यत्वरूपविरोधित्वात्प्रमादात्मकसं सारवति सदा तदभावोक्तेश्च मध्येति भावः । प्रमादाप्रमादयोर्मृत्य्वमृत्युत्वे मानमाह — प्रमादादीति । देहात्मधी रूपेण परिणतादज्ञानादसुरा विरो- चनादयः पराभूताः 'अनुपलभ्यात्मान' मित्यादि पराभविष्यन्ती ' त्यन्तश्रुतेः । अप्रमादात्प्रमादात्मक द्वैतविरोधि स्वस्वरूपं निर्णय सुरा ब्रह्मभूताः ‘तं देवा आत्मानमुपासते तस्मात्तेषां सर्वे लोका आप्ता इति श्रुतेः । अथवा असुषु रमन्त इत्यसुरा मूढाः, स्वस्मिन् ब्रह्माभिन्ने रमन्त इति सुरा ब्रह्मविदः । तदुक्तम् – 'आत्मन्येव रतिर्येषां स्वस्मिन् ब्रह्माणि चामले ते सुरा' इति । मृत्युर्यमो व्याघ्र इव साक्षान्नात्ति किं त्वज्ञानतत्कार्यद्वारा दुःख दातृत्वेनात्तीव अस्य व्याघ्र इवादतो यमस्य रूपं नोपलभ्यते न प्रामा- णिकम् । तथा चाज्ञानतत्कार्यस्य साक्षाहुःखदत्वे नोपलम्भात्तदेव मृत्यु- रज्ञान कार्यकर्मफलव्यवस्थापकत्वाद्यमोऽपि मृत्युरुपचर्यते । अत एव 'न चेदिहावेदीर्महती विनष्टिरिति श्रुतिरज्ञानं मृत्युपर्याय विनाष्ट- शब्देनाह । 'मृत्युर्वे तमो ज्योतिरमृतम्' इति च श्रुतिः । यत्तु मोहोऽज्ञानहेतुकः प्रमादोऽस्वाभाविक इति व्याख्यानं तन्न शोभते ; आधुनिकलक्षणापत्तेः । 'सत्यस्य सत्य 'मित्यादिश्रुत्यादिना मिथ्यात्व- सिद्धिः ॥ इति ज्ञाननिवर्त्यत्वान्यथानुपपत्तिः ॥ 1 पर्यायं ग.