पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

337 परिच्छदः] प्यात् स्वबाध्यबाधकयोरिव बाध्यबाधकभावोपपत्तेः । न च रूप्यादिबाघस्यापि दृटिसृष्टित्वे तेन रूप्यादेर्मिथ्यात्वासिद्धि- रिति - वाच्यम् ; बाध्यान्यूनसत्ताकत्वमेव बाधकत्वे प्रयोजकम्. न त्वधिकसत्ताकत्वमित्यस्योपपादितत्वेन व्यावहारिकेण व्याव- हारिकबाधवत् प्रातिभासिकेन प्रातिभासिकबाधाविरोधात् । न च - सुषुप्तिप्रलयादौ जीवब्रह्मविभागस्याप्रतीतत्वेनाविद्यमान- तया प्रतिसुषुप्ति प्रतिप्रलयं च मुक्तस्य पुनरावृत्त्यापत्तिरिति- वाच्यम्; जीवब्रह्मविभागादेरनादित्वेन दृष्टिसृष्टित्वानभ्युपगम- स्योक्तत्वात् । न च सुषुप्तं प्रति संस्कारादेरप्यभावेन तस्य पुनः रूप्यमिदमात्मकम्, द्वितीयज्ञाने तु प्रतियोगिता संबन्षेनाभावगतं ज्ञायते ; यथाज्ञानं सृष्टिस्वीकारात् । अतो भिन्नविषयकत्वेऽपि स्वप्न- वत्सारूप्यादुक्तरूप्ययोः रूप्यत्वरूपानादिधर्मवत्तया ज्ञायमानत्वाद्वाध्य- बाघकत्वोपपत्तेरित्यर्थः । अथवा सारूप्याद्विरोधिधीविषयत्वेन समानत्वा- दित्यर्थः । यथा सृष्टदृष्टिपक्षे बाध्यप्रतियोगिकाभावधीर्वाधिका तथा दृष्टिसृष्टौ तत्तत्प्रतियोगिकाभावधीस्तत्र 'बाधिका । न चापूर्वकल्पनेति वाच्यम्; अनादिशक्तिविशेषस्य बाघकतावच्छेदकत्वात् । एवं च रूप्यत्वादेः प्रतिरूप्यं दृष्टिभेदेशप 2 न क्षतिरिति ध्येयम् । व्यावहा रिकेण द्वैतभावेन । व्यावहारिकबाधवत् पूर्वोक्तव्यावहारिक- द्वैतबाधवत् । उक्तत्वादिति । वस्तुत ईशस्येव तस्माज्जीवे भेदस्यापि स्थूलमनःपरिणामत्वमेब; सुषुप्तचन्यदशायामेव तस्य दृश्यत्वात् । अज्ञानोपाधेर्विद्यमानत्वादेव सुषुप्तिप्रळययोर्न मुक्ततापतिरिति ध्येयम् । संस्कारादेरिति । अज्ञायमान कार्यानङ्गीकारेण तादृशसंस्काराद्यसंभव स्तत्र तत्र - ग. 2 सृष्टिभेदेऽपि -ग. उद्वेताभावेन -ग. 4 संस्कार - वेद्यसंभव-ग., दृष्टिसृष्टयुपपत्तिः ADVAITA VOL. II. 22