पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

330 सव्याख्यायामद्वैतसिद्धी [ प्रथमः , 'स्वे महिनी' ति श्रुतेः | सत्यमस्मिन्नैक्येन प्रतिष्ठितं काष्ठां प्राप्तम् ; ' सत्यस्य सत्यमि' ति श्रुतेः । सत्तासत्ते व्यावहारिकं सत्यमनृतं च गोबिन्दः ; 'सत्यं चानृतं च सत्यमभव' दिति श्रुतेः । सत्तासत्ते मुक्तामुक्तौ गोविन्दाधीनावित्यर्थस्तु न युक्तः ; आधुनिकलक्षणापत्तेः । तस्मात्सर्वापेक्षया सत्यत्वात्सर्वाधिष्ठानत्वाच्च कृष्णः सत्य इति व्याख्या- नम् | यत्त्वन्यानधीनसत्यत्वं लक्षणमपरिच्छिन्नानन्दत्वादिवदिति, तन्न; आनन्दस्वरूपस्येव सत्यस्वरूप स्यै वा स्मन्मते लक्षणत्वसंभवात् । त्वद्रीत्या धर्मस्य लक्षणत्वेऽपि सत्यादिपदलक्षणायां मानाभावेन ब्रह्मण्येव सत्यत्वा नन्दत्वादिस्वीकारौचित्याच्च। 'विमुक्तश्च विमुच्यत' इति श्रुत्यर्थापत्तिरपि तत्र मानम् । न चासत्सङ्गात्सतां दोषस्येव संसारम्य सत्यत्वेऽप्यस्वा- भाविकत्वात्सज्जनः सज्जनो जात इत्यस्येवोक्त श्रुतेरुपपत्तिरिति वाच्यम्; पूर्व दौर्जन्यत्यागेन सज्जनत्ववत्संसारित्वत्यागेन पूर्व विमुक्तत्वासंभवा- द्विमुक्तपदस्य स्वभावतोऽसंसारिलाक्षणिकत्वं वाच्यम् । तत्र च माना- भावात् 'ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रह्मास्मीति, ब्रह्मैवसन् ब्रह्माप्येति'---- निर्वाणमय एवायमात्मा ज्ञानमयोऽमलः । दुःखाज्ञानमला धर्माः प्रकृतेस्तु न चात्मनः ॥ इति श्रुतिस्मृतिभ्यश्च । धृतराष्ट्र उवाच -- सनत्सुजात यदिदं शृणामि मृत्युर्हि नास्तीति तवोपदेशः । देवासरा आचरन् ब्रह्मचर्य- ममृत्यवे तत्कतरन्नु सत्यम् ॥ सनत्सुजात उवाच- अमृत्युं कर्मणा केचित् मृत्युर्नास्तीति चापरे । शृणु मे ब्रुवतो राजन् यथैतन्मा विशङ्किथाः ॥•