पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] शास्त्रार्थनिर्णयस्य पादवार्तिके-- ज्ञाननिव र्यत्वान्यथानुपपत्तिः 329 तन्निमित्तकत्वादिति हि स्थितम् । उक्तं च स्मृति- गौणं लाक्षणिकं वापि वाक्यभेदन वा स्वयम् । वेदोऽयमाश्रयत्यर्थं को नु तं प्रतिकूलयेत् || इति || " - गौणं श्येनादिशब्दस्य यागविशेषादिरूपं 'यथा वै श्येनो निपत्यादत्ते एवमयं द्विषन्तं भ्रातृव्य ' मित्यर्थवादोक्तम् । लाक्षणिकं तु पुरोडाशानलकुरु' इत्यादौ पुरोडाशशब्दस्य घानाः, करम्भः, पुरो- डाश, परीवापः पयस्या, इति सवनीयहविःपञ्चकरूपम् | वाक्य- भेदेन 'आश्ववाल: प्रस्तर' इत्यादौ काशानामश्ववाल शब्दवाच्यत्वं प्रस्तरकार्ये विधानं चेति वाक्यभेदेनेति -- चेन्न; बृहदारण्यके तस्ये- त्यादेरुन्मत्तप्रलापत्वात् । छान्दोग्ये हि तस्येत्यादिवाक्यम्; तच्च 'ब्रह्मना-स्तुतिद्वारा दहरब्रह्मण उपास्यस्य स्तुतिपरत्वेन सावकाशत्वान्न योगव्यवस्थापकम् ! उक्तं हि भाष्ये – सद्बह्माऽमृतवाचकत्वात् सका- रोऽमृतः तिकारो मर्त्यस्तयोरन्तरत्वात्, यमिति नियामकम्, एवं ब्रह्मनामाक्षरस्याप्यमृतत्वं नियन्तृत्वं च किमुत ब्रह्मण इत्युपास्यं ब्रह्म स्तूयत' इति । तिकारो मर्त्य इत्यनेनापि सकारस्य न हि निन्दान्यायेन स्तुतिर्बोध्या । तथाच 'एकमेवाद्वितीयं तत्सत्यं स आत्मे ' त्यादिना सर्वद्वैतनिषेधपूर्वकं ब्रह्मण एव सत्यशब्देनोक्तत्वात्, तादृशस्यैव दहरब्रह्मस्वरूपत्वेन तत्र रूढ सत्यशब्दस्तुत्यर्थमुक्तवाक्यस्यो- तत्वात्, 'सद्भाव एष भवतो मयोक्तो ज्ञानं यथा सत्यमसत्यमन्य' दित्यादि विष्णुपुराणाच, शास्त्रप्रसिद्धया ब्रह्मण एव सत्यशब्दरूढि- विषयत्वात् 'सत्यं ज्ञान' मित्यादिवाक्यमबाध्यत्वोपलक्षितस्वरूप- लक्षणपरमेव । 'सत्ये प्रतिष्ठित' इत्यादेस्तु सत्ये स्वस्वरूपे प्रतिष्ठितः १ 1 रन्तला-ख. रन्त्यत्वा ग. "