पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] ज्ञान निवर्त्यत्वान्यथानुपपत्तिः इति पूर्ववाक्यात् । अत एवात्मतुल्यत्वस्य रागद्वेषविषयत्वायोग्यत्व- रूपस्य ज्ञानं तत्फलमुक्तम् । अत एव च 6 सर्वत्र दैत्याः समतामुपेत समत्वमाराधनमच्युतस्य | 327 , तस्मिन् प्रसन्ने किमिहास्त्यलभ्यं धर्मार्थकामैरलमल्पकास्ते' ॥ 'समाश्रिता दूमतरोरनन्तान्निस्संशयं प्राप्स्यथ वै महत्फल 'मि- त्यत्र विष्णुपुराण एव समत्वरूपाराधनजन्यप्रसादस्य तर्वाश्रयणदृष्टान्तेन परम्परया मोक्षफलप्रयोजकत्वमुक्तम् । न हि सफलतर्वाश्रयणस्याव्यव- धानेन फलप्रापकत्वनियमः; किंतु लोष्टादिव्यापारव्यवधानेनेति भावः ॥ 'तस्योपनिषत् सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यः । अथ नामधेयम्, सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्य' इति बृहदारण्यकोक्तिभ्यां ब्रह्मसत्तातोऽपकृष्टत्वेन प्रपञ्चसत्ता- प्रतीत्यापि प्रपञ्चो मिथ्या । न च - राजराजो देवदेवो मन्मथमन्मथ इत्यादौ देवत्वादीनामिव प्रपञ्चसत्यत्वम्यापकृष्टत्वं न तु बाध्यवृत्तित्व- मिति – वाच्यम् ; देवत्वादिजातेर्हि नापकृष्टत्वं संभवतीति आराध्याद्यपे- क्षयोत्कृष्टमाराध्यत्वादिकं बुध्यते । तथाच तद्वद्व्यवहारकालाबाध्यत्वरूप- प्रपञ्चसत्वापेक्षयोत्कृष्टं सत्त्वं त्रिकालाबाध्यत्वमेव । सर्वाराध्यत्वरूपत्व- स्येव सर्वकालाबाध्यत्वरूपत्वम्यैवोत्कर्षस्योत्कृप्यमाणम्वरूपघटकत्वात् । अविनाशिवृत्तित्वादिकं तु तदाश्रयोत्कर्षमात्र पर्यवसन्नम् । किञ्च देवदेवे- त्यादौ न निर्धारणम् ; समासत्वात् | 'सत्यम्य सत्य 'मित्यत्र तु सत्य - ब्रह्मभेदेन प्रतीयमानानां मध्ये ब्रह्मैव सत्यमित्यर्थसंभवान्निर्धारणम् । अत एव 'क्षत्रियो मनुष्येषु शूरतम' इत्यादी क्षत्रियगतमनुष्यत्वं मनुष्याणा- मिव ब्रह्मगतसत्त्वं प्राणानां निर्धारणोपपादकं प्राणा वै सत्य ' मित्यने- नोक्तम् । एक ब्रह्मरूपसत्तासंबन्धः प्रतीतिविषयो लाघवात्सर्वत्रेति ज्ञाप- यितुमेकवचनम् । अन्यथा सत्यमिति प्राणाः सत्या इति एष तत्सत्यमिति च ब्रूयात् । ळाघवेन समासस्यौत्सर्गिकत्वेन विशेष्यविशेषणयोरेकविभक्ति- ।