पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [प्रथमः तस्मादधिष्ठानज्ञानत्वेन ज्ञाननिवर्त्यत्वं मिथ्यात्वे प्रमाणमिति सिद्धम् । 326 इत्यद्वैतसिद्धी ज्ञाननिवर्त्यत्वान्यथानुपपत्तिः. प्रसीदत्यच्युतस्तस्मिन् प्रसन्ने क्लेशसंक्षयः || ' इति विष्णुपुराणमित्यत्राह – तस्मादिति । अधिष्ठानप्रमात्वेन मिथ्या- निवर्तकत्वस्य लोके क्ऌप्तस्य 'तरति शोकमि 'त्यादिशास्त्रोक्तत्वा- दित्यर्थः । नहि ज्ञानं प्रसादहेतुत्वेन लोके क्लृप्तम्, किंतु सेवा ; तथाच 'यस्य प्रसादा 'दित्यादेरीश्वरसेवाजन्यप्रसादो ज्ञानद्वारा मोक्ष- प्रयोजक इत्यर्थः; 'यस्य देवे परा भक्ति रित्यादिश्रुतेः । 'यथा दृष्टये 'त्यादेस्तु प्रसन्नो राजा पश्चाद्दष्टो यथा मोचकस्तथेश इत्यर्थः ।. न हि राजा बद्धं प्रति दृष्टिमात्रेण प्रसन्नः, प्रत्युत सापराधं' बद्धं प्रति भूयो निग्राह्कः। ‘तमेवे 'त्यादिश्रुत्या शुद्धात्मज्ञानस्य सर्वे द्वैत निवर्त कत्वेन प्रसादहेतुत्वासंभवाच्च । 'दृष्टैवे' वेत्यादेः प्रसादेऽन्ययोग- व्यवच्छेदपरत्वोक्तिः शोभते ; अदृष्ट्वा न मुच्यते इत्यस्यैव प्रतीतेः प्रसादस्याश्रुतत्वाच्च । एवं 'ज्ञाते त्वि 'त्यादिविष्णुपुराणे तु ज्ञानं न तत्त्वदर्शनम् ; किंतु सर्वत्र विष्णुरूपत्वदर्शनरूपं समत्वम् – 'यतितव्यं समत्वे च निर्वाणमपि चेच्छता | देवा मनुष्याः पशवः पक्षिवृक्षसरीसृपाः ॥ रूपमेतदनन्तस्य विष्णोभिन्नमिव स्थितम् । एतद्विजानता सर्व जगत्स्थावरजङ्गमम् ॥ द्रष्टव्यमात्मवद्विष्णुर्यतोऽयं विश्वरूपधृत् ।' | अपराधं- - क. ग.