पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] ज्ञाननिवर्त्यत्वान्यथानुपपत्तिः 325 सुपरिष्टादुपपादयिष्यते । सत्यस्य ज्ञाननिवर्त्यत्वे त्वाश्रय- विषयोभय संबन्धित्वादिनातिप्रसङ्गो विवरणकारैर्वर्णितः । - ● न नाश: ; न हि रूप्यादेर्ज्ञाननाश्यत्वमनुभूयते, नापि प्रतिपन्नोपा निषेध: :; 'क्षीयन्ते चास्ये ' त्यादि श्रुत्यादिविरोधात्तत्राह - इत्यादि सर्वमिति । बाघकाले ज्ञाननिवर्त्यत्वरूपमिथ्यात्वस्य रूप्यतदुपादाना- ज्ञानादौ प्रतीते:, शुक्तयज्ञानतत्प्रयुक्तं शुक्तिज्ञानान्नष्टमित्याद्यनुभवात्, स्वप्रकाशचित्प्रकाशरूपाज्ञानस्यानुपपन्नत्वाच्च । अत एव ऋतेऽर्थमित्या- दिनानुपपन्नस्य मायाशब्दितमिथ्यात्वमुक्तम् । आसीदिति श्रीस्तु रूप्यादाविवाज्ञानेऽप्यनृते नायुक्ते त्याद्यमे उपपादनीयमित्यर्थः । आश्र यविषयेत्यादि । ज्ञानेन सत्यस्य निवृत्तिश्चेत्कीदृशस्य ज्ञाननाश्यत्व- नियमः किं ज्ञानस्याश्रयेणाप्यथविषयेण अथोभयेन संबद्धस्य, नाघ: ; • आत्मज्ञानेन धर्माचनाशात् । न द्वितीयः ; नीलपीतावयविनो नीलत्वेन ज्ञानात्पीतिमनिवृत्तेः । न तृतीयः; देहज्ञानेन देहात्मतादात्म्यानि- वृत्तेः । मिथ्यामूतस्यैव ज्ञाननाश्यत्वपक्षे तु ज्ञानात्तत्समानाश्रयवि- षयकाज्ञानस्यैव निवृत्तिः । तथा च स्वप्रतियोग्यज्ञानप्रयुक्तस्यैव निवृत्तिरिंति भावः । यत्तु – ईशप्रसादादेव बन्धनाशः; 'यस्य प्रसाद- त्परमार्तिरूपादस्मात्संसारान्मुच्यते नापरेणे' त्यादिश्रुतेः 'मत्प्रसादात्त- रिष्यसी' त्यादिस्मृतेश्च । ज्ञानं तु प्रसादद्वारा हेतुः । तदुक्तम् -- ' यथा दृष्ट्या प्रसन्नः सन् राजा बन्धापनोदकृत् । एवं दृष्टः स भगवान् कुर्याद्वन्धविभेदनम् || इति । 'ढदैव तं मुच्यत' इति श्रुताववधारणं त्वयोगव्यवच्छेदपरम्, मोक्षहेतुप्रसादेऽन्ययोगव्यवच्छेदपरं वा । अत एव - ' एवं ज्ञाते तु भगवाननादिः पुरुषोत्तमः । तया च -क. ग.