324 संव्याख्यायामद्वैतसिद्धौ [प्रथमः अज्ञानस्य च समानाधिकरणसमानाकारज्ञाननिवर्त्यत्वम् । जीव- न्मुक्तौ च प्रारब्धकर्मप्रतिबन्धेन बन्धनाशविलम्ब इत्यादि सर्व- विषयज्ञानत्वेन ज्ञाननिवर्त्योऽपि प्रपञ्चोऽज्ञानवदज्ञानानुपादानक इत्य- पास्तम् । अज्ञाननिवृत्तिद्वारा ज्ञाननिवर्त्यत्वस्याज्ञानप्रयुक्तत्वव्याप्यत्वात्, अन्यथा लोकाक्लृप्तहेतुत्वकल्पनागौरवात् ॥ - ." - " ननु – ज्ञानमज्ञानात्मकस्यैव निवर्तकमित्यत्र ज्ञानं वृत्तिः, तत्प्र- तिबिम्बितचिद्वा, नायः; तस्या अज्ञप्तित्वात् नान्त्य; मुक्तानन्दस्य ज्ञप्तय मावापत्त्या तस्याप्यज्ञप्तित्वात् साक्षिभास्यमुखादौ तदभावाचेत्य- त्राह - अज्ञानस्य चेति । यद्यप्यनावृतचिदेव ज्ञप्तिः, तथाप्यना- वृतत्वप्रयोजकतया वृत्तावपि ज्ञानपदप्रयोगात्तामादायोक्तनियम इति भावः । ननु – लोकेऽधिष्ठानतत्वे साक्षात्कृते कर्मादिना न भ्रमानुवृत्ति- रिति जीवन्मुक्तायनुवृत्तं जगत्सत्यम्, तत्राह — जीवदिति । यथा सोपाधिकश्रमे नोक्तनियमः; उपाधिना प्रतिबन्धस्य दृष्टत्वात् तथा निरुपाधिक भ्रमेऽपि भुज्यमान कर्मणा प्रतिबन्धस्य दृष्टत्वात् । न हि शतादिवर्षावच्छिन्नभोगहेतुत्वेन श्रुत्युक्तं कर्म दशादिवर्षमात्रावच्छिन्न- भोगेsपि हेतुरिति कल्पना युक्ता; अनन्तहेतुत्वापत्तेः, अज्ञानकार्य- नाशे भुज्यमानकर्मत्वेन प्रतिबन्धकत्वस्य तदपेक्षया लघुत्वात्, ज्ञान- मेवाज्ञानतत्प्रयुक्तनाश इति पक्षे प्रारब्धभोगकालीनत्वेन श्रुत्यादिसिद्धं यत्तदन्यज्ञानमेव तथेति कल्पनंस्य ततोऽपि लघुत्वाच्च । ज्ञानस्याज्ञान- नाशस्य वानु' भूयमानत्वानोक्त कर्मप्रतिबध्यता । तच्च ज्ञानं सत्यं मिथ्या वा। आद्ये, तदुपादानकत्वेन मिथ्यात्वं न सिध्येत् | नान्त्यः; शुक्तधा- यज्ञानस्य सत्यत्वात् । न हि शुक्तयादौ ज्ञाते तदज्ञानं मिथ्येति धीः; प्रत्युत तदज्ञानमासीदिति सत्यत्वधीरेव । एवं ज्ञानेनाज्ञान कार्यस्य 1 त्वेन निवर्त्योऽपि - क. ग. 2 चानु - क. , .
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८५१
दिखावट