पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारच्छेदः] ज्ञाननिवर्त्यत्वान्यथा मुपपत्तिः , यत्त्वीश्वरज्ञानेन सत्यं घटादि निवर्तत इति प्रत्युदाहरणम्, तन; ईश्वरज्ञानस्य तार्किकमतेऽप्युपादानगोचरापरोक्षज्ञानत्वे- नैव कारणत्वात् अभावस्य च निरुपादानत्वात्, अभावं प्रति कारणत्वे मानाभावात्, सोपादानत्वे तु समवेतत्वेन तस्यापि भावत्वापत्तेः, अत्यन्ताभावादिवच्च तदजन्यत्वेऽपि ध्वंसस्य तद्विषयत्वोपपत्तेः । न च तादृगीश्वरज्ञाने सम्प्रतिपत्तिरप्य- न्यषामिति न काप्यनुपपत्तिः । यथा च शुक्तथादिज्ञानस्य . तु शुक्तयादिप्रप्रया तदज्ञानतत्प्रयुक्तं नष्टमित्यनुभवाद्दोषादिनिमित्त सत्त्वेऽपि तन्नाशस्य जायमानत्वेन निमित्तनाशनाश्यत्वेनान्यथा सिद्धयितु- मशक्यत्वादिति भावः । तद्विषयत्वोपपत्तेरिति । किंचिद्विषयकत्वे नियामकाभावेन न बाघकाभावाच्छ्रुत्यादिना सर्वविषयकत्वमिति भावः । अन्येषाम् औपनिषदादीनाम् | ईक्षणाकाशायोः पाठात्कमलामेडापन हेतुतद्वत्त्वम्, घटादौ तु कर्तुरेव हेतुत्वे न मानम्, नतरां तज्ज्ञानादि- हेतुत्वे इति तद्दृष्टान्तेनापि न तत्सिद्धिः । यत्तु - सोपादानं प्रत्युपादान- ज्ञानादिसत्त्वरूपकर्तृत्वेनेव' कार्यमात्रं प्रत्युपादानाघटितरूपेणेशज्ञानादे- हेतुत्वमिति तत्तुच्छम्; उक्त कर्तृत्वविशिष्टस्य हि हेतुत्वग्राहकं मानं बाघ काभावाद्विशेषणस्योक्तज्ञानादेरपि हेतुत्वं गृह्णाति; विशिष्ट प्रवर्त-- मानस्य' विशेषणेऽपि प्रवृत्तेरौत्सर्गिकत्वात् । तथाचोपादानघटितरूपेणैव ज्ञानादेर्हेतुत्वे मानम्, न त्वन्यरूपेणेति भावः ॥ -- ननु – यथा सेतुदर्शनमुक्तविशिष्टरूपेण विषेयम्, तथात्मप्रमा- प्यध्ययनादिनियमादृष्टादिविशिष्टतया विधेया; अन्यथा अनधीतवेदा न्तादिजन्यापि सा निवर्तिका स्यात्तत्राह - यथा च शुक्तयादीति । 1 मत्त्वरूपकर्तृत्वनैव-ग. 2 प्रवृत्तमानस्य - ग. ● ADVAITA VoL. II. 321 21