सव्याख्यायामद्वैतसिद्धो प्रत्यग्याथात्म्यधीरेव प्रत्यगज्ञानहानिकृत् । सा चात्मोत्पत्तितो नान्यङ्कान्तध्वस्तावपेक्षते ॥ इति च ॥ अत एव 'यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति, यत्र त्वस्य सर्वमात्मैवाभूतत्केन कं पश्येत्' इत्यादिश्रुतिः, या निशा सर्वभूतानां तस्यां जागतिं संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः || इत्यादिस्मृतिश्चाविद्यावस्थायां संसारोपलम्भं विद्यावस्थायां च तदनुपलम्भं दर्शयति । तस्मादधिष्ठानप्रमात्वेनात्मज्ञाननिवर्त्य - त्वाच्छुक्तिरूप्यादिष्विव बन्धेsपि मिथ्यात्वं सिद्धम् । 320 [प्रथमः , , प्रकृते व्यवच्छेदान्न दोषः । साधारणकारणं हि निवृत्तौ प्रतियोग्यपीति तन्न व्यवच्छिद्यते । यत्तु 'तदा विद्वान्नामरूपाद्विमुक्त' इति श्रुतेः कालोऽप्यज्ञान कार्यनिवर्तक इति - तच्चित्रम्; यथा नद्य इत्यादि तथा. विद्वानित्यन्तस्यैव मुण्डकपाठत्वात् श्रुत्यन्तरे तदापदसत्वेऽपि तेन ज्ञानसामग्री कालस्यैवोक्तत्वेन तद्धेतुत्वालाभात् । इत्यादिश्रुतिस्मृतीति । आदिना व्यवहरनास्ते, माययैव मायया ह्यन्यदिव, तम आसीत्, मायामयमिदं द्वैतम्, विमेदजनकेऽज्ञाने इत्यादिश्रुतिस्मृतयो बोध्याः । दर्शयतीति । यद्यन्यदपेक्ष्येत, तदा विद्यासत्वेऽपि तद्विलम्ब्रेन कार्य चिलम्बेत; विद्यासत्वे कार्याविलम्चे तु तदन्यहेतुत्वे न मानमिति भावः । तस्मादिति । शुक्तिरूप्यादेर्ज्ञाननिवर्त्यत्वं वदता त्वयापि शुक्तयादिप्रमात्वेन तन्निवर्तकता न वाच्या ; गौरवात्, किं तूक्तरीत्या प्रयोजकी भूताज्ञाननाशद्वारा प्रमामात्रस्य; तथाचात्माज्ञाने प्रपञ्चप्रयो- जकत्वस्य श्रुत्यादिना लाघवाच्च सिद्धेरात्मज्ञाने प्रपञ्चनिवर्तकत्वं लोक- सिद्धत्वादुक्तदोषाच न विधिविषयः । शुक्तिरूप्यादेर्ज्ञान निवर्त्यत्वं , 1 न हि प्रकृते कालादिकं विधेयम्, न वानुष्टातुं योग्यम्; येन तद्विशिष्ट तया ज्ञानं कृतिसाध्यमिति भावः । यत्तु-ग. h
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८४७
दिखावट