पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[प्रथमः रूप्यादिनिवर्तकत्वमप्रामाण्यज्ञानावरहमपेक्ष्यैव एवमात्मज्ञान- 322 सव्याख्यायामद्वैतसिद्धो , स्यापि श्रवणादिनिर्वृत्तासंभावनादिनिवृत्तिरूपाप्रामाण्यज्ञान- विरहापेक्षत्वमिति न किंचिदप्यधिकं कल्पितम् । आत्मज्ञानस्य सर्वसुकृतसाध्यत्वं शुक्तयादिज्ञानापेक्षया विलक्षणमिति तु दृष्टा- न्तदान्तिक योर्वैधर्म्यमात्रोद्भावनात् वैधर्म्यसमा जातिः निवृत्तिरूपेति । निवृत्तिप्रयोज्येत्यर्थः । वाक्यार्थेऽसंभावितत्वज्ञानेन' प्रपञ्च सत्यत्वदेहात्म संस्काररूपविपरीतभावनया च दोषेण बाधित विषय- कत्वरूपाप्रमात्वं वाक्यार्थज्ञाने ज्ञाप्यते; तादृशभ्रमोपादानाज्ञानावृत- त्वात्, तन्नाज्ञाननिवर्तकम् ; अनावृतप्रमात्वाश्रयस्यैव शुक्तयादिज्ञानस्य तत्त्वेन क्लप्तत्वात् । तथा चाध्ययनश्रवणादिनियमादृष्टादेरुक्तप्रमात्वाज्ञान- निवृत्तौ तादृशाज्ञानशून्यप्रमाप्रतिबन्धकपापनिवृत्तौ वा जनकत्वम् । असंभावनादिनिवृत्तौ श्रवणादेर्जनकत्वमनावृतप्रमात्वमात्रेण ज्ञानस्य निवर्तकत्वं क्लृप्तमिति न विधेयम् । न वाध्ययनश्रवणादिनियमविशिष्ट- रूपेण विषेयत्वावकाशः; साङ्गप्रधानस्य हि कृतिसाध्यता प्रयोगविधिना

बोध्यते । न बाध्ययनश्रवणादिनियमो ज्ञानाङ्गम् ; येन तद्विशिष्टं ज्ञानं कृतिसाध्यतया बोध्येत उक्तफलविशिष्टज्ञानादिस्वतन्त्र फलकत्वेन प्रधानत्वात् । न च विधेयजन्यफलजन्यफलं प्रत्येव नियमादृष्टं हेतु- रिति नियमः ; येन ज्ञानफलहेतुत्वं नियमादृष्टस्योच्येत, पुरुषार्थनियम- स्थले व्यभिचारस्योक्तत्वादिति भावः ॥

- ननु – लोके शुक्तयादिप्रमा पापनाशनिरपेक्षैवाज्ञान कार्यनिव- र्तिकेति, कल्पित त्वस्योक्तनिरपेक्षप्रमानिवर्त्यत्वव्याप्यत्वात्तदभावात्प्रपञ्चे कल्पितत्व।भावस्तत्राह — आत्मज्ञानस्येति । साध्यत्वं पापनाशद्वारा जन्यत्वम् । वैधर्म्यमात्रेति । अधिष्ठानप्रमात्वेन निवर्तकत्वं शुक्तयादा- | ज्ञानेन प्रपत्नसत्यत्वज्ञानेन-ग. "देहासत्त्व - क. देहात्मत्व -ग. 3 निवर्तके कल्पित - क. ख.