पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

312 सव्याख्यायामद्वैतसिद्धौ [ प्रथमः , कर्तव्यः, यमः समानमाश्रमिणां धर्मसाधनम्, नियमः प्रतिविशिष्ट- मात्मसंस्कारः पुनरधर्महानं धर्मोपचयश्च योगशास्त्राञ्चाध्यात्मविधिः प्रति- पत्तव्यः स पुनस्तपः प्राणायामः प्रत्याहारो ध्यानं धारणेति, इन्द्रिय- विषयेषु च प्रसङ्ख्यानाभ्यासो रागद्वेषनिघातार्थः । उपायस्तु योगाचार- विधानमिति, ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवाद : (२) तदर्थमिति प्रकृतं ज्ञायतेऽनेनेति ज्ञानमात्मविद्याशास्त्रम् तस्य ग्रहणमध्ययनधारणे, अभ्यासः सततं तत्क्रिया, अध्ययनानुबन्धश्रवणचिन्तनानि, तद्विधै- ब्ध सह संबाद इति प्रज्ञापरिपाकार्थम् प्रज्ञापरिपाकस्तु संशयच्छेदनं विज्ञा' तार्थावबोधोऽध्यवसितार्थाभ्यनुज्ञानमिति, समायवाद : 3 संवाद - स्तद्विद्यैश्च सह संबाद इत्यविविक्तार्थं वचनं तद्विभजते - तं शिष्यगुरु सब्रह्मचारिविशिष्ट श्रेयोर्थिभिरनुसूयिभिरभ्युपेयात् (३), एतन्निगदव्याख्या- नेनैव नीतार्थमिति । यदि च मन्येत पक्षप्रतिपक्षपरिग्रहः प्रतिकूल : • परस्येति, प्रतिपक्षहीनमपि वा प्रयोजनार्थमर्थित्वे ( ४ ) । तमभ्युपेयादिति वर्तते परतः प्रज्ञामुपादिसमानस्तत्वबुभुत्साप्रज्ञापनेन स्वपक्षमनवस्थापयन् स्वदर्शनं परिशोषयेत् अन्योन्यप्रत्यनीकानि च प्रवादुकानां दर्शनानि स्वपक्षरागेण चैके न्यायमतिवर्तन्ते । तत्र तत्त्वाध्यवसायसंरक्षणार्थ जल्पवितण्डे' बीजप्ररोहरक्षणार्थ" कण्टकशाखावरणवत् (५) । अनुत्पन्न- तत्त्वज्ञानानामप्रहीणदोषाणां तदर्थं घटमानानामेतदिति, विद्यानिर्वेदादि- भिश्च परेणावज्ञायमानस्य ताभ्यां विगृह्य कथनम् (६) । ताभ्यां जल्प- वितण्डाभ्यां विगृह्मेति विजिगीषया न तत्त्वबुभुत्सयेति । तदेतद्विद्या- पालनार्थ न लाभपूजाख्यात्यर्थमिति । एवमन्या अपि श्रुतिस्मृतिपुराणेति- हासादिकोटयो दृश्यमात्रमिथ्यात्वबोधिकाः सत्योऽपि ग्रन्थगौरवभिया न लिख्यन्त इति । तस्मान्मूढमतिर्नैव श्रद्धेयोऽयं प्रलापकृत् ॥ ! नविज्ञा-ग. 6 विदण्डे-क. ग. , . 2 बोधा-ग. 8 संरक्षणार्थ- ग. ." V 3 समयवादः -ग. 4 मतिवदन्ते - क. 7 मतिनैव-ग. .