पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्ञाननिवर्त्यत्वान्यथानुपपत्तिः अथ ज्ञाननिवर्त्यत्वान्यथानुपपत्तिः 'तरति शोकमात्मवित्' 'तथा विद्वानामरूपाद्विमुक्तः ' 'भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे' || इत्यादिश्रुतिस्मृतिबोधितज्ञाननिवर्त्यत्वान्यथानुपपत्तिरपि बन्धमि- थ्यात्वे प्रमाणम् ; सत्यत्वे ब्रह्मवदनिवर्त्यत्वापत्तेः । तथाहि-शुक्ति- रूप्यरजुसर्पादौ ज्ञाननिवर्त्यै न तावत्तत्तद्रूपवत्त्वं ज्ञाननिवर्त्यताव- च्छेदकम्; अननुगमात्, किंतु सर्वानुगतं मिथ्यात्वमेवाज्ञानक- ल्पितत्वापरपर्यायमवच्छेदकम् । एवं ज्ञानस्यापि तनिवर्तकत्वे न तर्कैः सारस्वतै रनैश्चन्द्रिका चन्द्रभूषणैः ॥ श्रुतिस्मृतिमहातर्क कोटिभिर्जगती मृषा || इत्य तसिद्धियाख्याय गुरुचन्द्रिकायां सद्वतश्रुतेर- द्वैत्तात्पर्यकत्वनिर्णयः ॥ परिच्छेदः] 313 अथ ज्ञाननिवर्त्यत्वान्यथानुपपत्तिः, 2 तरति शोकमात्मविदिति । तरति अतिक्रामति अत्यन्तं नाशयतीति यावत् । शोकं भीहेतुं द्वैतमिति यावत् । भिद्यते नाश्यते । हृदयग्रन्थिः अहङ्कारः | छिद्यन्ते कारणीभूताज्ञानोच्छेदान्नोत्पाद्यन्ते, श्रुतिबोधितेति । आत्मविदित्यादीनां हेतुगर्भविशेषणत्वात् ज्ञानात्पूर्व शोकायनिवृत्तेर्लो कसिद्धत्वेन ज्ञानकाले तदुक्तथा च ज्ञानस्य तद्धेतु- तालाभाच्च दृश्यस्य ज्ञाननिवर्त्यत्वं श्रुतिबोषितमिति भावः । बन्ध- मिथ्यात्वे दृश्यमात्रमिथ्यात्वे । अज्ञानकल्पितत्वेति । अज्ञानरूपदोष- 1 निवर्त्यत्वे 2 नोत्पद्यन्ते-ग.