परिच्छेदः] एकमेवेत्यादिश्रुत्यर्थविचारः दशादिरूपा विषया नात्मान्यदस्ति तत्तस्माद्धर्याध्युपाधिशून्यत्वादेतदा- त्मस्वरूपं ब्रह्मेत्याचेतावन्मधुस्वरूपं प्रत्यग्ब्रह्मणोरैक्य ' मिति भाष्यवा- र्तिकानुसाव्यिाख्यानात् ॥ , - ननु – मायाभिर्विचित्रशक्तिभिर्मत्स्याद्यनेकरूपत्वमिन्द्र इत्यादा- वुच्यते, 'रूपं रूपं प्रतिरूपो बभूवे' त्यत्रापि बिम्बभूतेश्वरीयरूपाणां प्रतिरूपशब्दित प्रतिबिम्बभूतजीवोपास्यानां रूपं रूपमित्यनेनोक्तत्वात्, तेषामेव पुरुरूपेत्यत्र रूपपदेन प्रत्यभिज्ञानात् 'अयं वै हरय' इत्यत्रापि हरिशब्देन विष्णुरूपाणां दशत्वादिनोक्कत्वात् । अन्यथा अद्वैतमते चिन्मात्रस्यैव नानारूपाधिष्ठानत्वेनेन्द्रपदास्वारस्यात् । मायां तु प्रकृतिं विद्यादि' त्यत्रापि मायया संनिरुद्ध इति पूर्वोक्ता या माया सा प्रकृतिः प्रधानमित्यर्थो न तु या प्रकृतिः सा माया मिथ्येति पूर्वोक्त- मायाशब्दार्थस्य जिज्ञासितत्वात्, प्राथम्येन मायाया एवोद्देश्यत्वा- त्प्रकृतिशब्दस्य प्रधाने प्रसिद्धत्वान्मायाशब्दस्य सत्ये मन्त्रौषधादावपि · प्रयोगाच्चेति – चेन्न । ' पुनः स पक्षीभूत्वा पुरः पुरुष आविश' दित्यनेन हि यत्पुरावेशनमुक्तम्, 'रूपं रूप ' मित्यादिना प्रतिलिङ्ग- शरीरं प्रतिबिम्बीभवनरूपत्वेन तदेव व्याख्यातं जिज्ञासितत्वान्न तु जीवोपास्य मत्स्यादिरूपमुक्तम्; अजिज्ञासिताभिधानापत्तेस्तस्याप्रकान्त- त्वात् । पुरुरूपपदेन प्रक्रमिष्यमाणस्य तस्य ग्रहणमपि न युक्तम् । न हि जीवान्प्रति मत्स्यादिरूपं बिम्बम्; किंत्वीश्वरः, तस्य च नोक्ति- संभव; रूपं रूपमिति वीप्साया असक्तेः । शरीरेश्वरयोरत्यन्ताभेद स्तु बाधितो दूषितश्च । अथ - प्रतिरूपः प्रतिबिम्बभूतो जीवः रूपं रूपं बभूव प्राप्तवान् सेवत इति यावत्, भू – प्राप्ताबित्यस्य छान्दसं पदम्, तथाप्यध्यात्मप्रकरणे उपास्यरूपोक्तयसङ्गतिः । लिङ्गशरीरप्रति- बिम्बत्वोक्तया तु जीवस्य विवेचनं सङ्गतम् । मायाशब्दस्य च शक्ति- परत्वे लक्षणापत्तिः । ‘माया प्रज्ञा वयुन' मिति नैघण्टुकोक्तया ज्ञाने 303
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८३०
दिखावट