पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

304 सभ्याख्यायामद्वैतसिद्धौ [ प्रथमः 6 6 यौगिकस्यापि तस्य मिथ्या रूढत्वात् । मिथ्याभूतस्य कारणे मन्त्रादावपि "प्रयोगो लक्षणयैव । अस्येत्यस्याव्यवहितेन्द्रपरामर्शकत्वे षष्ठयर्थासङ्गतिः, व्यवहितजीवपरामर्शकत्वे स एव दोषः । अवतार्यावतारभावस्य षष्ठ्य- र्थत्वेऽपि 'अयं वै हरथ' इत्यादि 'इन्द्र' इत्यादि च व्यर्थ्यम् । न हीदमुपासनापरम्, निर्गुणप्रकरणस्येदं वै तन्मध्वित्यादौ स्फुटत्वात्, युक्ता ह्यस्येत्यादावस्मदुक्तार्थस्य श्रुत्यन्तरसंवादस्योक्तत्वात् || 'वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ " सूर्यो यथे 'त्यादि 'न लिप्यते लोकदुःखेन बाह्य' इत्यादिश्रुतौ मदुक्तार्थस्य स्फुटत्वात् । न पत्र प्रतिरूपो जीवोऽणुत्वेन तदङ्गीकृतो मत्स्यादिरूपोपासक इत्युच्यते; बहिष्ट्रस्य सर्वभूतान्तरात्मत्वस्यैकत्वस्य दुःखालेपस्य चान्वयापत्तेः, किंतु प्रतिदेहं प्रवेशेन विविच्यमानजीवानु.. वादेन तस्य बहिष्वादिकमज्ञातं ज्ञाप्यते । न च----' रूपं रूप 'मिल्य- नेनोक्तेषु मत्स्यादिदेहेषु प्रविष्ट ईश: प्रतिरूपपदेनोच्यत इति - बाच्यम् ; ‘स एष इह प्रविष्ट 'इत्यादिवाजसनेयायुक्तप्रतिरूपशब्दित - जीवप्रत्यभिज्ञाविरोधात्, न लिप्यत इत्यप्रसक्तप्रतिषेधापत्तेः, प्रतिरूप- बहिरनुवादेन एकपदेनाद्वितीय स्वरूपविधानविरोधात् 'भूतानीन्द्रियाणि विराजं देवताः कोशांश्च सृष्ट्वा प्रविश्यामुढो मूढ इव व्यवहरन्नास्ते माययैवे' ति तापनीये ' स एष इह प्रविष्ट आनखाग्रेभ्यः प्राणन्नव प्राणो भवति वदन् वाक् पश्यंश्चक्षु' रित्यत्र चोक्तप्रविष्टजीवप्रत्यभिज्ञाविरो- धाच्च । रूपं रूपं मघवानो भवती' त्यादिमन्त्रस्तु ईशस्तुतिपरो न त्वद्वैतात्मपरप्रकृतवाक्यसमानार्थकः । 'मायां तु प्रकृति 'मित्यादेस्तु या प्रकृतिः सा माया मिथ्येत्येवार्थः; माया च तमोरूपानुभूतेः 'तदेत- ज्जडं मोहात्मकमनन्तं तुच्छमिदं रूप' मित्यादि 'तुच्छयनाम्वपिहितं - 9 , त्वदशीकृतो-ग. * मघवा बोभवती - ग. P