पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

302 सभ्याख्यायामद्वैतसिद्धौ [ प्रथम: कालापरिच्छिन्ने परिच्छेदा व्यवहारस्य त्वयैवोक्तत्वेन गुणतः परिच्छे- दस्य सुतरामव्यवहार्यत्वाच्च । 'पृथिव्येतावती 'त्यादिश्रुतौ देशकाला - परिच्छिन्नेऽपि पृथिव्यादौ गुणतः परिच्छेदो व्यवद्दियत इत्युक्तिस्तु मौढ्यात्, पृथिव्यादेंर्देशादिपरिच्छेदात् । तस्माद्गुणानन्त्यस्यानन्तपदा- र्थत्वे मानाभावादुक्तरूपमेवानन्त्यम् । अनन्तश्रुत्युपपत्तिः ॥ - ' तदेतन्मधु दध्यङाथर्वणोऽश्विभ्यामुवाच 'रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शतादशेत्ययं वै हरयोऽयं वै दश च सहस्राणि बहूनि चानन्तानि तदेतद्ब्रह्मा पूर्वमनपरमनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभू' रिति श्रुत्यापि दृश्यं मिथ्या । यत्कक्ष्यं मधु पूर्वमुक्तं तदिदं, किं तत् ? रूपमित्यादि सर्वानुभूरित्यन्तं यद्रूपं रूपं प्रति प्रतिरूपो रूपान्तरम्, नानारूपमिति यावत् । किमर्थं नानारूपत्वं तत्राह – तन्नानारूप मस्यात्मनः प्रतिचक्षु- णाय प्रतिख्यापनाय, प्रज्ञानघनस्य हि निरुपाधिकस्वभावस्य नानारूप- त्वनैव संसारिरूपेणाचार्यादिज्ञेय ब्रह्मरूपेण वा प्रतिख्यापनं नान्यथा, अतोऽयं नानारूपत्वादिन्द्रः परमेश्वर एकरूपोऽपि मायामिर्मिथ्याभूतैर- भिन्नः पुरुरूपः ईयते ज्ञायते । कुतो नानारूपा माया ? तत्राह - हि यस्मादस्यात्मनो रथिस्थानीयस्य हरयोऽश्वा इन्द्रियरूपा रथस्थानीये शरीरे विषयरूपदेशप्राप्तये आगन्तुकतया युक्ताः संबद्धाः । तथाहि काठकश्रुतिः- - - 'आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनःप्रग्रहमेव च । इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् । इति । • ततश्च हर्यादीनामागन्तुकत्वादयमात्मैव हरयोऽयमेव च वक्ष्यमाण 1 परिच्छेद-ग. 2 देशकाल - क.