पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] द्वितीय मिथ्यात्वनिरूपणम् तत्तद्धीव्यक्तीनां अनवच्छेदकत्वेऽपि अबाध्यत्वोपलक्षितस्वरूपेणाभा- वनिवेशे न दोषः । ऐक्यस्य संबन्धे नावच्छेदकत्वं वाच्यम् । तेन उक्तस्वरूपस्य आध्यासिकतादात्म्येन प्रपञ्चसम्बधित्वेऽपि न स्वरूपा- वच्छेदकत्वपक्षोक्तदोषः । ऐक्यस्य सिद्धान्ते सम्बन्धत्वाभावेऽपि न क्षतिः । परैस्तदभ्युपगमात्, तद्रीत्या तान्प्रत्युक्तिसंभवात् । गङ्गा- तरणादे ' रधर्मस्य धर्मविधयेव असम्बन्धस्यापि सम्बन्धविधया प्रतियोगि तायामवच्छेदकत्वसंभवाच्च । न च पूर्वक्षणाद्यवच्छिन्नो क्तस्वरूपात्मक घटा- द्यभावप्रतियोगित्वमादाय घटादौ सिद्धसाधनतावारणाय अनवच्छिन्ना- वच्छेदकतानिवेशे घटादिरूपस्याखण्ड ' त्वाभावेन तदसंभवात् । अख- ण्डघटत्वाद्यबाध्यस्वरूपनिष्ठं ऐक्यसम्बन्धावच्छिन्नं प्रतियोगितावच्छेद- कत्वं यस्य तादृशघटाद्य भावप्रतियोगित्वमादायांशतो घटादौ सिद्ध- साधनमिति वाच्यं; पक्षतावच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यत्वे तदसंभवात् । सामानाधिकरण्येन तदुद्देश्यत्वेऽपि सखण्डस्यापि घटा- दिस्वरूपस्य अनवच्छिन्न।वच्छेदकतावत्त्वे बाघकाभावेन अदोषत्वात् । अबाध्यत्वव्यापकविषयतयाऽभावनिवेशसभवात् । एतेन स्वान्येन तत्त- दबाध्यस्वरूपेण अवच्छिन्न प्रतियोगिताकाभावमादाय दृश्यमात्रे सिद्ध- साधनमित्यपास्तम् । न च निर्विकल्पकविषयता तादृश्येका ब्रह्मणीव घटादावपीति स्वरूपावच्छेदकत्वपक्षीयदोष इति वाच्यं; समवायव- त्सिद्धान्ते विषयताया आधारभेदे ऐक्यासंभवात् अबाध्यं सर्व मेयं इत्यादिसविकल्पकीय मुख्यविशेष्यताव्यक्तयाऽभावनिवेशाच्च । बाध्यत्वा- दिनिष्ठेन विशेष्यत्वेन अभावस्य प्रतियोगित्वमादाय घटादौ सिद्ध- साधनस्य वारणाय मुख्येति । एवंच न तार्किकादिमते बाध्यत्वा- प्रसिद्धिः दोष त बोध्यम् । किंच शुक्तिरजतादौ बाध्यत्वस्वीकार एव प्रकृतानुमानावतारः अन्यथा साध्यवैकल्यात् । न चोक्तविशेष्यतायाः 1 गगनादे. 2 रूपस्य खण्ड. 63