पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

62 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः रूप्यं पारमार्थिकत्वाकारेण प्रातिभासिकं वा प्रतियोगीति मतहानिः स्यादिति वाच्यम् । अस्याचार्यवचसः पारमार्थिक- लौकिकरजततादात्म्येन प्रतीतं प्रातिभासिकमेव रजतं प्रतियोगी- त्यर्थः । तच्च स्वरूपेण पारमार्थिकत्वेन वेत्यनास्थायां वाशब्दः । प्रतियोगितावच्छेदकतावच्छेदकता यस्य तादृशाभाव इति वा वाच्यं, अतो नानवस्थेति चेन्न; पारमार्थिकत्वाकारेण निषेघेऽनवस्थेति शब्देन तं तं पूर्वपक्षमानूद्य दोषान्तराणामुक्तत्वात् । तथाहि, पारमार्थिकत्वाकारेणेत्यस्य स्वेनेत्यर्थकत्वात् आद्यपक्षस्यानुवादः । तदा अनवस्थेत्यस्य साध्यसिद्धिरूपावस्थाविरोध्यर्थकतया अर्थान्तरमर्थः । ज्ञानं सर्व स्वविषयकमिति मते विषयतया स्वस्य स्वाविशिष्टत्वात् तादृशधियः तद्व्यक्तित्वावच्छिन्नाभावस्यैव तन्मते निवेशसम्भवात् । स्वाश्रये स्वस्य स्वेनाभावः स्वाविषयत्वं स्वस्यादायैव वाच्यमित्यर्थान्तरात्, स्वभिन्न पारमार्थिकत्वेनेत्यर्थकत्वात् द्वितीयपक्षस्योक्तिः । तदा 'अनवस्था' इत्यस्य एकरूपेण साध्यस्थापनाभावोऽर्थः । स्वभि न्नस्य स्वेन स्वस्थान्येन अभावे वाच्ये एकावच्छिन्नाभावघटित- रूपेण साध्यस्थापनस्यासम्भवात् ! उक्तोभयावृत्तिविशिष्टेनेत्यर्थ- कत्वात् तृतीयपक्षोक्तिः । तदा अनवस्थेत्यस्य विषयतासंबन्धेन घटत्वादेः प्रपञ्चनिष्ठप्रतियोगिता या भवच्छेदकत्वसंभवात् घटत्वा द्यपेक्षया तत्तद्धीव्यक्तीनां गुरुत्वेनानवच्छेदकत्वात् । प्रपञ्चसत्यत्वमते बाध्य- त्वाप्रसिद्धेश्च । उक्ताभावाप्रसिद्धया तद्घटितसाध्यस्थापनाभावोऽर्थः । तस्यापीत्यपिशब्दात् तद्व्यक्तित्वविशिष्टेन उक्तरीत्या तव्यक्तित्वविशिष्टा- वच्छिन्नाभावघटितसाध्यस्य अप्रसिद्धया स्थापनाभावः । तेन स्वस्व- भिन्नयोः पक्षयोः व्यक्तिद्वयावच्छिन्नाभावद्वयघटितसाध्यद्वय करणे पि दोष उक्तः । अनास्थायामिति । विकल्प इत्यर्थः । उक्तरीत्या 1 स्वाविषयक. 6