पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीय मिथ्यात्वनिरूपणम् अधिष्ठानतत्त्वसाक्षात्कारे रूप्यं नास्ति नासीन भविष्यतीति स्वरूपेणेव 'नेह नाना' इति श्रुत्या च प्रपञ्चस्य स्वरूपेणैव निषेधप्रतीतेः । न च तत्र लौकिकपरमार्थरजतमेव स्वरूपेण निषेधप्रतियोगीति वाच्यम्, भ्रमबाधयोर्वैयधिकरण्यापत्तेः अप्र- सक्तप्रतिषेधापत्तेश्च । न च तर्धुत्पत्त्याद्यसम्भवः । न ह्यनि- षिद्धस्वरूपत्वमुत्पत्त्यादिमत्त्वे तन्त्रम् | परैरनिषेध्यरूपत्वेन अङ्गीकृतस्य वियदादेरुत्पत्त्याद्यनङ्गीकारात्। किन्तु वस्तुस्वभावा- दिकमन्यदेव किञ्चित्प्रयोजकं वक्तव्यम् । तस्य मयाऽपि कल्पि- तस्य स्वीकारात् । न च त्रैकालिकनिषेधं प्रति स्वरूपेणापणस्थं संबन्धेन पारमार्थिकत्वस्य अवच्छेदकता वाच्या, अन्यथा कालिका- दिना पारमार्थिकत्वेन घटत्वाद्यभावमादाय घटत्वादी सिद्धसाधनाद्यापत्तेः न चाधिकरणान्तं व्यर्थम् । पारमार्थिकत्वेन तद्घटादे: स्वानधिकरणे अभावस्य सिद्धत्वात्, सामान्यरूपेण विशेषाभावानभ्युपगमेऽपि उक्ता- भावमादाय अर्थान्तरापत्तेः । यत्तु प्रपञ्चसत्यत्वमते बाध्यत्वा प्रसिद्ध्या अबाध्यत्वव्यापक विषयताकधीरपि अप्रसिद्धेति बाध्यत्वसिद्धया उक्त- धीसिद्धिः, तत्सिद्धौ च तदवच्छिन्नाभावघटितबाध्यत्वसिद्धिारति अन्यो- न्याश्रय इति, तन्न; मिथ्यात्वरूपबाध्यत्वासिद्धावपि अबाध्यं सर्व वाच्यमिति धियः प्रपञ्च सत्यत्वमतेऽपि स्वीकारात् प्रमेयत्वस्यैव अबा- ध्यत्वरूपस्य तत्र भानस्वीकारात् । अतएव तम इति धीविशेष्यः भावोऽभावो वेति विवदन्ते । अनवस्तेति – अबाध्यं सर्व वाच्यामिति षियः एकस्या अन्यया भावः' तस्या अप्यन्यया एवमन्यासामप्यन्याभिः इत्यनवस्था । ननु एकया स्वभिन्नदृश्य मात्रस्य स्वस्य चाभाव इति स्वेन स्वभिन्नदृश्यस्य स्वाविषयकयाऽन्यया च स्वस्याभाव इति वा अबाध्यत्वव्यापकविषयताकवृत्त्युभयावृत्तिधर्मनिष्ठानवच्छिन्न- परिच्छेदः] 1 अभावः. 61 -