पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

60 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां , 1 वाच्यम् । मिथ्यात्वेन अनिश्चितप्रपञ्चस्य तद्धीविषयत्वशङ्कासम्भवात्, अबाध्यत्वव्यापकत्वानुरोधात् । न च ब्रह्ममात्रे श्रुतेः तात्पर्यादेव श्रुति- जन्यतद्धीः तथात्वानिश्चय इति वाच्यं, तात्पर्ये संशयानं प्रत्येव प्रकृतानु- मानसार्थक्यात् । नापि प्रतिबन्धकवशा तद्धीः प्रपञ्चाविषयणीति निर्णेयमिति वाच्यम्, मिथ्याविषयकत्वे अविद्या निवर्तकत्वानुपपत्त्यैव प्रतिबन्धकत्वस्य निश्चेयत्वात् । नापि 'तमेवं विदित्वा' इत्यादि- श्रुतेः तथा तस्या अपि उक्तानुपपत्तिमाश्रित्यैव तथा बोधकत्वात् । अन्यथा तन्मात्रधियः अविद्यानिवर्तकस्य अदृष्टद्वारकत्वापत्तेः । अवि- द्यासमानविषयकत्वं तु शुद्धब्रह्मविषयिण्याः अन्याविषयकत्वेऽप्युपपद्यते न हि घटशुक्तिविषयिणी धीः न शुक्तयज्ञाननिवर्तिका, मिथ्यात्वे निश्चिते तु मिथ्यार्थे तत्वावेदकश्रुतितात्पर्याभावात् । कदाचित्सामग्री- वशात् मिथ्याविषयकब्रह्मज्ञानोत्पादेऽपि तदभावकाले ब्रह्ममात्रधीः उक्त- श्रुतिजन्येति भवति निश्चयः । ततश्च तस्याः अवच्छेदकत्वधीसंभव इति भवत्येवान्योन्याश्रयः । यद्यपि स्वरूपस्यावच्छेदकत्वपक्षे स्वाव च्छेदका वच्छिन्न वन्निष्ठात्यन्ताभावप्रतियोगित्वादीव' पारमार्थिकत्वावच्छे- दकत्वपक्षेऽपि स्वसमनियतधर्मावच्छिन्नवन्निष्ठेत्यादि वक्तुं शक्यम् । स्वप्रतियोगिताव्यापकमात्रस्य व्याप्यमात्रस्य वा उक्तौ प्रमेयत्वाद्यवच्छि- नवनिष्ठघटाद्यभावस्य तद्भटवन्निष्ठस्य एतद्धटत्वेन घटाभावस्य वा प्रति- योगित्वं घटादी सिद्धमेवेति समनियतेति । एवंच पारमार्थिकत्वनिष्ठा- वच्छेदकत्वस्य लक्षणे प्रवेशो निष्प्रयोजनो भवति तथाऽपि घटादौ पटत्वेन घटाद्यभावीयप्रतियोगितायाः घटपटोभयत्वाद्यवच्छिन्नप्रतियागि तायाश्च स्वसमनियतान्यतरत्वाद्यवच्छिन्नवन्निष्ठाभावीयायाः घटादौ सि- द्धत्वात् लाघवाच्च स्वाश्रय समानाधिकरणात्यन्ताभावीयपारमार्थिकत्वा- वच्छिन्न प्रतियोगित्वादिकं वाच्यमिति भवत्यन्योन्याश्रयता । विषयता- न वा. 2 योगित्वादिति 3 भाति. [प्रथमः