पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] द्वितीयमिथ्यात्वानरूपणम् तनिषेधप्रतियोगित्वं किं स्वरूपेण, उतासद्विलक्षणस्वरूपानु- पमर्देन, पारमार्थिकत्वाकारेण वा, नाद्यः, श्रुत्यादिसिद्धोत्पत्ति- कस्यार्थक्रियासमर्थस्य अविद्योपादनकस्य तत्वज्ञाननाश्यस्य च वियदादेः रूप्यादेव धीकालविद्यमानेन असविलक्षणस्वरूपेण त्रै कालिकनिषेधायोगात् । नापि द्वितीयः, अबाध्यत्वरूपपार- मार्थिकत्वस्य बाध्यत्वरूप मिथ्यात्वनिरूप्यत्वेनान्योन्याश्रयात् । पारमार्थिकत्वस्यापि स्वरूपेण निषेधे प्रथमपक्षोक्तदोषापत्तिः अतस्तस्यापि पारमार्थिकत्वाकारेण निषेधे अनवस्था स्यादिति चेन्नैवम् ; स्वरूपेणैव त्रैकालिकनिषेधप्रतियोगित्वस्य प्रपञ्चे शुक्तिरूप्ये च अङ्गीकारात् । तथाहि शुक्तौ रजतभ्रमानन्तरं उक्तमिथ्येत्यर्थः । तथाच 'यजेत' इत्यादिश्रुतेरिवोक्तश्रुतेरपि व्याव- हारिकं प्रामाण्यमक्षतम् । तात्त्विकं तु तन्नास्त्येवेति भावः । किं स्वरूपेणेति स्वं मिथ्यात्वधर्मि तन्निष्ठं विषयत्वादिरूपं स्वरूपम् । पारमार्थिकत्वाकारेणेति । पारमार्थिकत्वं – अबाध्यत्वव्यापकविषय- ताकधीः । तदाकारः - -तद्व्यक्तित्वविशिष्टं तस्त्वरूपम् । तेनोक्तधी- त्वस्य तद्व्यक्तित्वापेक्षया गुरुत्वेऽपि न क्षतिः, न वाऽऽकार- पद्वैयर्थ्यम् । अबाध्यत्वरूपेति । बाध्यत्वविरोधिरूपेत्यर्थः । बाध्यत्वेति । प्रपञ्चगतेत्यादि । निरूप्यत्वेनेति । उक्तविरोधस्य निरूप्यत्वात् तद्विारीष्टे तदुक्तिः । न च उक्त पारमार्थिकत्वस्य तथ्य - क्तित्वेन अवच्छेदकत्वज्ञानं मिथ्यात्वविरोधत्वज्ञानं विनापीऽति नान्यो- न्याश्रयः इति वाच्यम्; तद्विना वियत्त्वादि स्वरूपवदवच्छेदकत्वानि- श्वयात् । तद्धीव्यक्तेः प्रपञ्चविषयकत्वशङ्कायाः प्रपञ्चाविषयकत्वरूपविरोध- निर्णयं विना निवर्तयितुमशक्यत्वात् । न च तावताऽपि तद्धियः प्रपञ्च। विषयकत्वनिरूपणमेव अपेक्षितां, न तु प्रपञ्चमिथ्यात्वनिरूपणामिति 1 उत्तर. 2 विपश्चादि. - 59 -