अद्वेतासद्धिव्याख्यायां गुरुचन्द्रकायां [ प्रथमः 1 श्रुतेरप्रामाण्यापत्तिः । ब्रह्मभिन्नं प्रपञ्चनिषेधादिकं अतात्विक- मित्यतात्विकत्वेन बोधयन्त्याः श्रुतेरप्रामाण्यासम्भवात् । नन्वे- कम् । तेन सामान्यानुमाने पक्षतावच्छेदकस्य प्रतियोगितावच्छेदकत- या भानाभावेऽपि न क्षतिः । वस्तुतो निषेधप्रतियोगितावच्छेदकमेवार्थः । सामान्यानुमानेऽपि स्वावच्छिन्ननिष्ठात्यन्ताभावप्रतियोगितावच्छेदकधर्म- वत्त्वादेः साध्यत्वात् तुल्यत्वात् भासमानत्वात् । यत्तु स्वानार्था - भावस्य जाग्रत्यबाधानुभवात् न तस्य बाध्यत्वम् । स्वप्नदृष्टत्वेनैव बाध्यत्वे आत्मनोऽपि बाधापत्तिः । एवंच निषेधस्य बाध्यत्वं, प्रतियोगिसत्त्वाविरोधत्वे तन्त्रमेव । अथ च निषेधनिषेधोपि प्रपञ्च- सत्त्वस्यापादकः, तद्विना अनुपपन्नत्वात् प्रतियोगिनो निषेधस्य वा सत्त्वावश्यकत्वात् । अतएव रजतभेदासत्त्वे रजतसत्त्वं त्वयैवोदा- हृतम् । प्रागभावप्रतियोगिनोस्तु निषेधः प्रतियोगिसत्त्वं विनाऽप्यु- पपद्यते, स्वस्यैव सत्त्वादिति । तत्तुच्छम् । जाग्रत्यबाध्यत्वेनानुभूय- मानो हि म्वामार्थस्याभावो व्यावहारिक इन्द्रियादिप्रमाणग्राह्यः । तदन्यस्तु स्वाप्नो भावः स्वाप्नवृत्तिविशेषाभिव्यक्तसाक्षिभास्योऽपि न प्रमाणग्राह्यः । किंच स्वप्ने रजतादौ रजतभेदादिकमनुभूयते । तत्र च व्यावहारिकत्वं न शङ्कास्पदम् । रजताद्यात्मकनिषेधेन रजताभा- वादिकं बाधितमनुभूयते । स च निषेधो न व्यावहारिकः, तदु- चितदेशकालकार्यग्राहकाद्यभावात् । स्वप्नदृष्टत्वेनात्मनो न बाध्यत्वा- पत्ति: दृष्टत्वाभावात्; 'अदृष्टो द्रष्टा' इति श्रुतेः । मूलाविद्यादिकं तु बाध्यमेव, स्वप्नमात्रादृष्टत्वात् । न जामद्धीबाध्यमिति निषेध्यन्यून- सत्ताकत्वेनैव निषेधः प्रतियोगिसत्त्वाविरोधी, न तु बाध्यत्वमात्रेण ‘ प्रतियोगिनो निषेधस्य वा सत्त्वं नावश्यकम् | स्वाप्नार्थ तन्निषेधयोरसत्त्वात् रजतस्य सत्त्वं तु तदन्यूनसत्ताकाभावा ज्ञानपर्यन्तमिति । अतात्त्विकेति । 1 बाध्यत्वापत्तेः. सत्ताकाबाधा. 58 2
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७८
दिखावट