पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] द्वितीयमिथ्यात्वनिरूपणम् बाध्यत्वेपि प्रपञ्चस्य तात्त्विकत्वम् । उभयोरपि निषेध्यताव- च्छेदकस्य दृश्यत्वादेस्तुल्यत्वात् । न चातात्विकनिषेधबोधकत्वे रूपस्य द्वयोः सत्त्वे इष्टापत्तेः । निषेध्यतावच्छेदकस्य दृश्यत्वा- देरिति । 'नेह नानास्ति' इति श्रुतौ दृश्यत्वं प्रतियोगिताव- च्छेदकम् । अभावादिसाधारणस्य नानात्वस्य वृत्तिविशेषविषयत्व- रूपत्वात् । तच्च न पर्याप्त्यवच्छेदकं येन युगपत्सर्वदृश्याभाव- सत्त्वात् ' परेषामिष्टं, परन्तु स्वरूपसम्बन्धेन । न चैकाश्रयेऽपि नाना नास्तीति प्रयोगात् तत्र पर्याप्त्यैव तत्तथेति वाच्यम्, वायौ नानारूपं नास्तीत्यादौ स्वरूपसम्बन्धेनापि तथा वकुं शक्यत्वात् । अन्यथा किंचनेत्यस्य वैयर्थ्यात् । केनापि सम्बन्धेन नानात्वव- नास्तीत्यस्य ततो लाभात् । घटादेर्नाशप्रत्यक्षेण सर्वदृश्यानां युग- पदसत्त्वमविवादमिति नेहेत्यादिवाक्यस्यैव वैयर्थ्यापाताच्च । यदिच 'नेह नानास्ति किंचन मृत्योस्स मृत्युमामोति य इह नानेव पश्यति' इत्यस्य ' नात्र काचन भिदाऽस्ति अत्र भिदामिव मन्यमानः शतधा सहस्रधा भिन्नः मृत्योर्मृत्युमाप्नोति इत्यादिश्रुत्त्यैकार्थतया नानेत्यात्मभिन्नार्थकं, किंचिनेति च मूढधीविषयार्थकम् । तत्तयोः एकमेवावच्छेदकं अन्यप्रतियोग्यंशे विशेषणमात्रम् ! तदुक्तिस्तु भिन्न- स्यात्मनि प्रतीयमानस्य तादात्म्यस्यासम्भवात्, विषयस्य विषयिणि स्वप्नवत्कल्पितत्वाच्च सुतरामभाव इति सूचनाय | तवापि तदेव दृश्यत्वम् । आदिना वियत्त्वादिवियदभावत्वादिपरिग्रहः । सम्भवति च भिदानानाशब्दयोः विलक्षणार्थकतया मिथो वैलक्षण्यरूपविषय- त्वादेः नेह नानेत्यादौ अवच्छेदकतया धीः । प्रकृतानुमानपक्षतावच्छे- दकस्याप्यादिमा ग्रहणादनुमानेऽपि निषेध्यतावच्छेदकं तुल्यं लभ्यते । . अनुमाने निषेध्यतावच्छेदकं निषेधप्रतियोगित्वांशे विशेष्यतावच्छेद- 1 वभासत्वात्. 2 तदापि. 9 57