पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः पारमार्थिकसत्त्वाविरोधित्वे न तन्त्रम् | किन्तु निषेध्यापेक्षया न्यून सत्ताकत्वम् । प्रकृते च तुल्यसत्ताकत्वात् कथं न विरोधि- त्वम् । न च निषेधस्य निषेधे प्रतियोगिसत्त्वापत्तिरिति वाच्यम्, तत्र हि निषेधस्य निषेधे प्रतियोगिसत्त्वमायाति । यत्र निषे. धस्य निषेधबुद्धया प्रतियोगिसत्त्वं व्यवस्थाप्यते न निषेध- मात्रं निषिध्यते यथा रजते नेदं रजतमिति ज्ञानानन्तरं इदं नारजतमिति ज्ञानेन रजतं व्यवस्थाप्यते यत्र प्रतियोगिनिषेध- योरुभयोरपि निषेधस्तत्र न प्रतियोगिसत्त्वम् | यथा ध्वंससमये प्रागभावप्रतियोगिनोरुभयोः निषेधः । एवंच प्रकृतेऽपि निषेध- बाधकेन प्रतियोगिनः प्रपञ्चस्य निषेधस्य च बाधनाम निषेधस्य त्वस्य नेत्यर्थः । निषेध्यापेक्षया न्यूनसत्ताकत्वम् । स्वन्यूनसत्ताकनिषेधप्रतियोगित्वं तन्त्रमित्यनुषज्यते । अप्रातिभासिक- निष्ठं प्रातिभासिकस्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वमप्रातिभासि- कत्वस्य, पारमार्थिकनिष्ठं स्वसमानाधिकरणव्यावहारिकात्यन्ताभावप्र- तियोगित्वं पारमार्थिकत्वस्य व्याप्यमिति निष्कर्षः । कथं न विरो- धित्वमिति । व्यावहारिकोक्ताभावप्रतियोगित्वस्य पारमार्थिकत्वा- व्याप्यत्वं कथं नेत्यर्थः । रजतं व्यवस्थाप्यते-- रजतत्वं व्यवस्था- प्यते । रजतत्वस्यात्यन्ताभावरूपो रजतमेदो रजतत्वन्यूनसत्ताक इति न रजतत्वस्य मिथ्यात्वनिश्चयः । न च समसत्ताकयोः भावा- भावयोः अविरोघे बाध्यबाधकत्वानुपपत्तिरिति वाच्यम् अभावग्रा- हकश्रुत्यादिप्राबल्येन वक्ष्यमाणेन तदुपपत्तेः । न च श्रुत्यनुमित्योः परो- क्षत्रमं प्रत्युच्छेदकत्वादात्मसाक्षात्कारपूर्व तदुच्छेदस्स्यादिति वाच्यम्, तदुपादानम्लाज्ञानानिवृत्तेः । न चैवं स्वान्यूनसत्ताकस्वसमानाषि- करणात्यन्ताभावप्रतियोगत्वेन निश्चितत्वस्य बाध्यत्वरूपत्वे स्वाप्न- भावाभावयोः द्वयोरपि स्वप्मे बाधितत्वापात्तीरति वाच्यम्; उक्त- , 56 -