पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] 55 त्वेन तात्त्विकसत्वाविरोधित्त्वादर्थान्तरमिति वाच्यम्; स्वाना- र्थस्य रजतादेः स्वामनिषेधेन बाधदर्शनात् । निषेधस्य बाध्यत्वं द्वितायमिथ्यात्वनिरूपणम् धत्वस्य कल्पितस्याज्ञानेऽपि सद्रूपाधिष्ठानसामान्यज्ञानसम्भवात् नानुपपत्तिरिति भावः । स्वामार्थस्य रजतादेः स्वामनिषेधेन बाधेति । स्वामरजतादे: स्वानाभावाविषयकबाधेत्यर्थः । न च मनो- वच्छिन्नं जीवरूपं ब्रह्मरूपं वा चैतन्यं अविद्यावच्छिन्नं ब्रह्म वा स्वाप्नाव्यमविष्ठाननिति तद्धीरेव स्वामबाधः; न तु स्वाभाभावधीः अधिष्ठानाविषयकत्वात्, स्वामस्य प्रातिभासिकत्वेन अज्ञानविषयतानव- च्छेदकत्वाच्चेति वाच्यम् | बाधकत्वस्य स्वानाभावबुद्धावप्यानुभविकत्वेन मनोवच्छिन्न इव स्वानाभावावच्छिन्नोप चैतन्ये अज्ञान विशेषाङ्गीकार- 11 सम्भवात् । न च प्रातिभासिकत्वविरोधः, तत्तदज्ञानान्याज्ञानभावस्य तत्र निवेशात्, अन्यथा मनसोऽपि तद्विरोधापत्तेः । तथाचेदं रजता- भाववदित्यादिस्वाप्नबुद्ध्युत्तरकालावच्छेदेन रजताभावादौ साक्षिण्युत्पन्ने प्रकाशप्रसक्तया तदवच्छेदेनाज्ञानविषयत्वसम्भवात् । तदानीमुत्पन्नस्येदं रजतमित्यादिस्वमस्य तदुत्तरोत्पन्नया इदं रजताभाववदिति घिया बाध: ; अथवा स्वामरजताद्यभावोत्पत्तेः पूर्व प्रकाशाप्रसक्तावपि पश्चात्तद्धी- ब्राधकस्वानुभवादेव तदवच्छेदेनाज्ञानविषयत्वम् । भाव्यवच्छेदेन ज्ञान- विषयत्ववत् । एवंच स्वामषु प्रातिभासिकत्वं यथाश्रुतमेव । यद्वा बाघोऽत्र न सविलासाज्ञाननिवर्तकधी:, किन्तु मिथ्यात्वनिश्चयः । निषेध्यस्य बाध्यत्वं – मिथ्यानिषेधप्रतियोगित्वम् । पारमार्थिक- सत्ताविरोधित्वे - निषेधसत्ताधिकसत्ताकत्वे । न तन्त्रम् - न व्याप्यम् । प्रातिमासिकस्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वमप्रातिभासिकत्व स्य, व्यावहारिकस्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वमव्यावहारिक- - - 1 अवस्था.