पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ 252 [प्रथमः , चेति दिक् । सर्वासस्त्रं सर्वमिथ्यात्वान्नातिरिच्यते; अतः सर्वभेदविषयकत्त्वं वाच्यम्; तथाच स्वान्यस्मिन्सर्वस्मिन्सर्वभेदरूपे वाक्यार्थे वाच्येऽद्वैतज्ञानिनं प्रति पदार्थाप्रसिद्धश्चत्यादीत्यर्थः । अत्रापो वेत्यादिनारायणीयोपनिषद्वाक्यस्य स्तुतिपरत्वेनाभेदपरत्वाभावाद्भेदप्रत्य- क्षापेक्षया दुर्बलत्वम् । सर्वं न सर्वमित्यादिवाक्यस्याप्यनाप्तवाक्यत्वेन घटो न घट इत्यादिवदपार्थकत्वेन च दुबलत्वमित्यपि बोध्यम् । ननु 'इदं वा अग्रे नैव किंचनासीत्' इति श्रुतिः, विमतम् असत्, प्रती- तत्वादि ' त्यनुमानं वा स्वबाधकत्वाभिमतस्य सत्यज्ञानादिवाक्यस्या- सत्वमादौ गृहीत्वा, सर्वासत्वं बोषयेदित्यत आह – सर्वासत्वमिति । अपरोक्षतया ज्ञायमानानां पृथिव्यादीनामलीकत्वासंभवेन सर्वस्य मिथ्या- स्वरूपासत्वमेव वाच्यम्; तथाच मिथ्याभूतस्याप्यर्थक्रियाकारित्वेन पूर्वो- तत्वात्, मिथ्यात्वेन ज्ञायमानस्यापि सत्यादिवाक्यस्य प्रमाजनकत्व- ज्ञानसंभवात् अतथात्वज्ञानाघीनाप्रमात्वज्ञानस्य सत्यादिवाक्यजन्य- ज्ञाने वक्तुमशक्यत्वात् अन्यथासत्व' वाक्यादावप्यसत्वज्ञानेन तज्ज- न्यज्ञानेऽप्यप्रमात्वधी संभवात्, अद्वैतज्ञानिनं प्रति स्वान्यदसदित्युप- न्यासस्य विशेषणाप्रसिद्धया कर्तुमशक्यत्वात् द्वैतमात्रोच्छेदकत्वा- दिना 'सत्यं ज्ञानमद्वितीयमि' त्यादिवाक्यस्य सर्वासत्वादिवाक्याद्य- पेक्षयोक्तरीत्या प्राचल्याच्छून्यवादापत्तश्च नोक्तापत्तिरित्यर्थः ॥ , 9 ." ननु साक्षिणान्तःकरणाद्यभेदभ्रमो न स्यादिति पूर्वोक्ता पत्तिर्न युक्ता; इष्टत्वात् अत एव मम मन इति भेदप्रत्यक्षमिति – चेन्न; सुखादौ मनो निमित्तमात्मोपादानमित्यत्र गौरवान्मन एवोपादानमिति तद्धर्मसुखादेरात्मधर्मत्वस्यानुभूयमानस्य मनआत्मतादात्म्याध्यासं विना- नुपपत्तेः साक्षितादात्म्यं बिना मम मन इति प्रत्यक्षस्याप्यसंभवात् । 1 ज्ञानेन-ख. 2 सर्वासन्च-ख. ग.