पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अद्वैतश्रुतेर्बाघोद्धारः 253 दृग्डश्ययोः सम्बन्धस्याध्यस्ततादात्म्यरूपत्वेनोक्तत्वात् । अन्यथा यकृत- जातीयसम्बन्धकल्पने गौरवम् ; कार्यमात्रे निमित्तत्वस्येवोपादानत्वस्या- प्यात्मन्यविनिगम्यत्वेन स्वीकारात्, प्रकृतिश्चेत्यादिन्यायात् । मम मन इत्यत्र तु गतिरुक्तसाक्षि वृत्तित्वेनाध्यस्ते मनःपरिणामसंकल्पादौ घीः साक्षिभेदविषया चेति न दोषः । यत्तु - साक्षिणा स्वस्मिन् स्वेतरभेद - ग्रहः, तत्र च स्वेतरत्वेन यत्किचिदितरज्ञानमपेक्ष्यते' इतरत्वं च भावरूपं सत्त्वप्रतिद्वंद्वि, न तु भेदरूपम्; येनानवस्था स्यादिति - भावरूपेतरत्वे मानाभावात् तेन रूपेण भेदग्रहेऽपि तदन्य- रूपेण भेदाग्रहादभेदस्य श्रुत्या ग्रहे बाघकाभावाच || , - ननु – अर्थापत्तिसाधारणमेकं घटपटभेदोपपादकं नास्तीत्युक्त- मयुक्तम् ; घटपटभेदसिद्धिविरोधी यो भेदाभावस्तद्विरहस्य तत्वसंभवात्, • यथा हि घटपटभेदज्ञानस्याद्वैतज्ञानेन भेदाभावे घटपटभेदासिद्धिस्तथार्था- पत्तेरद्वैतज्ञानादभेदेप्युक्तरीत्या सेत्यर्थापत्तिभेदोऽपि तदुपपादक इति -- चेत्, भ्रान्तोसि; न मुक्तभेदसिद्धिविरोधितावच्छेद कमेकमस्ति; येनानु- गतरूपेण निवेशः । नच – भेदज्ञाननिष्ठं यदबाघकत्वं तदनुमापकत्व- रूपं तदेकं भेदज्ञान मैक्यज्ञानं प्रत्यबाधकम् तदैक्यात्, यद्यदैक्यवत्त- तदबाधकम् यथा संप्रतिपन्नमिति व्याप्तेर्भेदज्ञानरूपपक्षधर्मतायाश्च ज्ञानविषयत्वरूपस्योक्तानुमापकत्वस्यैक्य सत्वादिति – वाच्यम्; भेद- ज्ञाने स्वैक्यस्यापि तादृशैक्यतया तद्भेदस्यापि तदभावत्वेन रूपेण भेदज्ञाने सिद्धयापत्तेः भेदमात्रस्य तादृशत्वेन विशेषणस्याव्यावर्तकत्वा- पत्तेः, तादृशैक्यस्य सिद्ध्यसिद्धिभ्यां व्याघाताच्च । तस्मादिदं भेदज्ञान- मद्वैतज्ञानाबाध कत्व व्याप्याद्वैतज्ञानैक्यवदित्यादिज्ञानविषयत्वरूपं तत्त- ज्ञाननिष्ठाबाघ कत्वानुमापकत्वं तत्तज्ञानभेदेनाननुगतमेव विशोधिशेषि- 1 गतिरुक्ता साक्षि ग. 2 मपेक्षते --ग.