पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैत श्रुतेर्बाधोद्धारः 251 बाध्यबाधकयोरैक्याबोधनात् बाधकस्य बाधकत्वोपपत्तेः । ऐक्य- ज्ञानभेदज्ञानयोर्बाध्यबाघकभावस्य जलाभेदज्ञानेनानपायात् । परिच्छेदः] G - , बाघकाभेदो हि बाधकत्वाभावे प्रयोजकः; बाधकस्य स्वबाघ- कत्वादर्शनात् । अतो न बाध्यबाधकैक्यज्ञानस्य जलाभेदज्ञान- साम्यम् । एतेन —–सर्व सर्वस्माद्भित्रमिति मद्वाक्यमद्वैतवाक्य- तद्भानतद्विषयाणां तेभ्यो भेदमादौ गृहीत्वा निर्वाधं सत्सर्वभेदे पर्यवस्यतीति -- निरस्तम्; बाध्यबाधकयोरभेदे बाधकत्वाभाव- वत् भेदेऽपि बाधकत्वं न स्यादित्यत्र हेत्वभावात् पूर्वोक्तदोषा- प्राबल्यमद्वैतश्रुतेरित्युक्तत्वादिति शेषः । तथा च पूर्व बलाबल विचारे संभावितदोषत्वेन प्रत्यक्षस्याबलत्वं तदभावेन श्रुतेर्बलत्वं दर्शितम्, अत्राप्युक्तं बलाबलम्, बलाबलेनैव बाध्यबाधकत्वव्यवस्थेत्यपि तत्रै-

  • बोकम् । अतो न सा भेदमात्रणेति भावः । बाध्यबाघकयोरिति ।

आपः सर्वमिति ज्ञानपृथिव्यादयोनापइति ज्ञानयोरित्यर्थः । ऐक्य- ज्ञानभेदज्ञानयोः । उक्तज्ञानयोः | बाधकाभेदः बाधके बाध्याभेदः । बाध्यबाधकैक्येति । सर्वाद्वैतेत्यर्थः । तद्भान तद्विषयाणां अद्वैत- ज्ञानाद्वैतानाम् । तेभ्यः अद्वैतवाक्यमद्वैतज्ञानमद्वैतं चेत्येतेभ्यः । निर्बाधं सदिति । बाघकत्वाभिमतद्वैतज्ञानं तद्भिन्नत्वेन निश्चितमत- स्तेन भेदज्ञानं न बाध्यतया निश्चेतुं शक्यत इत्यर्थः | हेत्वभावादिति । अद्वैतज्ञानं तत्वेन साक्षिगृह्यमाणं तद्भिन्नत्वेन गृहीतुमशक्यम् | शक्यत्वे व तदभिन्नत्वेनाप्यद्वैतश्रुत्यैव तस्य गृङ्खमाणत्वात्तदकिंचित्करम् । शाब्दबोघे च विपरीतधीर्न विरोधिनीति भावः । पूर्वोक्तेति । अद्वैत- ज्ञानिनं प्रति तादृशवाक्यस्य सश्रद्धभेदज्ञानाजनकत्वात्तदुपन्यासो व्यर्थः, भेदज्ञानस्य स्वस्मादपि भेदसिद्धया • बाघकत्वाभावापत्त्या स्वातिरिके' 1 पूर्वबलावल - ग. 2 बलं - ख. ग. 3 तज्ञान -ख. अज्ञान-ग. 4 स्वातिरिक-ग.