पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैत श्रुतेर्बाधोद्धारः 237 बोधयितुमशक्यत्वादिति – चेन्न; अन्त्यपक्षाभ्युपगमे दोषाभा वात् । अप्रसक्तप्रतिषेध इति च किमप्रसिद्धप्रतियोगिकत्वम्, किं वा निष्प्रयोजनत्वमिति विवेचनीयम् | नाद्यः; अन्यत्र प्रसिद्धस्यैव भेदस्य भेदत्वेनोपस्थितस्य परस्परप्रतियोग्यनु- योगिभावेनान्यत्र निषेधसम्भवात् । न च तत्रैव प्रसिद्धिस्तन्त्रम्; निषेघप्रमामात्रोच्छेदप्रसङ्गात् । न द्वितीयः; अनर्थनिवृत्त व प्रयोजनत्वात्, 'नान्तरिक्षेऽग्निश्चेतव्य' इत्यादौ स्तुतिमात्र- प्रयोजनेनाप्यप्रयोजनेनाप्यप्रसक्तनिषेधदर्शनाच | अथ श्रुत्या परिच्छेदः] इति समाधानसम्भवेऽपि तस्य पूर्वमुक्तत्वादाह - अन्त्यपक्षेति । अन्यत्रेत्यादि । ययोरैक्यं बोधनीय तयारकतरप्रतियोगिक भेदत्वेन वस्त्वन्तरे प्रसिद्धस्य तयोरन्यतरत्र प्रतिषेध सम्भवादित्यर्थः । तत्रैव - निषेधाधिकरण एव । प्रसिद्धि प्रमा | निषेधप्रमामात्रेति । न हि यत्रातिरात्रादिव्यक्तौ षोडशिग्रहणांदर्निषेधस्तत्र तत्प्रमास्ति; विरोधात् । यथा चातिरात्रे भ्रमरूपा प्रसंक्तिस्तथा प्रकृतेऽपि संशयरूपा सम्भवतीति तहाघेऽपि न प्रमाणबाघ इति भावः । अथवा निषेधमात्रं प्रतियोगि प्रसक्त्यभावस्थलीयनिषेधो 'नान्तरिक्षेऽमिश्चेतव्य' इत्यादिरूपः ॥ . ननु -- नान्तरिक्ष इत्याद्यर्थवादम्य हिरण्यं निधाय चेतव्य' मिति विहितहिरण्यस्तुतिपरत्वम् ; न निषेधपरत्वम् तथा च प्रमारूप- प्रसक्तेर्निषेधाधिकरण विरहऽपि प्रसक्तिमात्र निषेधस्थलेऽपक्षितमेव । न च तत्संशयरूपम् ; निश्चयस्यैव कल्पनौचित्यात् तत्र नातिरात्र इत्यादौ प्रसक्तिबाधेऽपि प्रसञ्जकस्य ग्रहणविध्यादेनत्यन्तबाधः, अद्वैत- वाक्ये तु प्रसञ्जस्य प्रत्यक्षादेः सर्वात्मना बाध इत्युक्तम्, तत्राह-- नान्तरिक्ष इति । यद्यपि स्तुतौ लक्षणया तात्पर्यम्, तथापि तदुप- , 1 तयोरन्यतरत्वप्रतिषेध-ग. i