पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

236 अन्यत्राप्युक्तम्- सव्याख्यायामद्वैतसिद्धौ विरुद्धवत्प्रतीयन्त आगमा यत्र ये मिथः । तत्र दृष्टानुसारेण तेषामर्था विवक्षिताः ॥ इति ॥ [प्रथमः तथाच प्रत्यक्षादिविरोधात्पूर्वोत्तरविरोधाञ्च नाद्वैतपरत्व- मेकमेवेत्यादिवाक्यानामिति – चेन्न; द्वैतप्रत्यक्षस्य चन्द्रप्रादेशि- कत्व प्रत्यक्षवत्सम्भाविताप्रामाण्यतया अद्वैतश्रुतिविरोधित्वाभा- वात् । यथाच श्रुत्या प्रत्यक्षं वाध्यते, तथा प्रपञ्चितमधस्तात् । किञ्च प्रत्यक्षं नियतविषयम् । श्रुतिः सर्वविषया ! तथाच यत्र प्रत्यक्षेण भेदो न गृहीतः, तत्रैवाभेदश्रुतेरवकाशः । ननु - ययोरैक्यं श्रुत्या बोध्यते तयोर्भेदः प्रसक्तो न वा । नान्त्यः अप्रसक्तप्रतिषेधापातात् | नाद्यः ; प्रसञ्जकप्रमाणविरोधेनैक्यस्य , ताऽप्यजुहृत्प्रत्यवेयादि 'ति । दृष्टानुसारंण – प्रमाणत्वंन निश्चित- मानान्तरानुसारेण । यत्र प्रत्यक्षेणेति । तथाच प्रत्यक्षादिविषयः सर्वोऽपि श्रुतिबाधितः, श्रुतिविषयन्तु सर्वोऽपि न प्रत्यक्षादिबाधित, इति श्रुतिः प्रबला । सामान्यविषय सावकाशविषयत्वादिना श्रुते लता तु पूर्वमेव निरस्ता; सामान्यविशेषन्यायस्य निश्चितप्रामाण्योभय- विषयकत्वात् श्रुतेर्विषयान्तर इव प्रत्यक्षादेरपि स्वविषय एव व्याव- हारिकभेदविषकत्वेन सावकाशत्वादित्यादिना । किंच घटपटौ भिन्ना- विति ज्ञानेन बाधकत्वाभिमतात्स्वस्माद्वाध्यत्वाभिमतस्य श्रौतैक्य ज्ञानस्य भिन्नत्वेनाग्रहणात्तत्र लब्धपदा 'सर्व खल्विदं ब्रह्मे 'त्यायै- क्यश्रुतिस्तयोरैक्यं गृह्णाति । एवं चोक्तप्रत्यक्षं स्वाभिन्नस्योकैक्य- ज्ञानस्य न बाघकमिति निर्वाधोक्तश्रुतिः सर्वाद्वैते पर्यवस्यतीत्यादि वक्ष्यमाणं बोध्यम् । आद्यपक्षे प्रसञ्जकं प्रत्यक्षादिमानं श्रुत्या बाध्यत