पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

238 सभ्याख्यायामद्वैत सिद्धौ [प्रथमः ययोरभेदो बोध्यते तयोरुपस्थितिरास्त, न वा, नान्त्यः; अनु- पस्थितयोरभेदबोधनायोगात् । आद्ये सा किं श्रुतिजन्या, प्रत्य- क्षादिजन्या वा, नाद्यः; श्रुतेर्मानान्तरागोचराभेदमात्रपरत्वेन घटाद्युपस्थितेस्तजन्यत्वाभावेन सर्वाद्वैतासिद्धेः, श्रुतिस्थाकञ्चने- त्यादिपदानामनुवादकत्वाभ्युपगमात् । द्वितीये तु तयोर्भेदोऽपि प्रत्यक्षादिसिद्ध इति वाद्वैतश्रुत्यवकाशः ? मैवम् ; यत् प्रत्यक्षादिना गृह्यते, तद्भेदोऽपि तेन गृह्यत एवेति नियमाभा- वात् । तथा हि — न तावत्पदार्थस्वरूपज्ञानमेव भेदज्ञानम् ; अभेदभ्रमोच्छेदप्रसङ्गात् । स्वरूपभेदवादिनामपि स्वरूपज्ञाना- द्धटत्वादिप्रकारकाद्भेदत्वप्रकारकं भेदज्ञानं विलक्षणमेव ; अन्यथा मेदाग्रहनिबन्धनव्यवहारानुदयप्रसङ्गात् । अतएव स्वरूपज्ञानो- तरकालमवश्यं भेदज्ञानमित्यपि न अनवस्थाप्रसङ्गाच्च । घटपटभेदघी: स्वप्र- तथाहि --' घटपटौ भित्रौ जानामी 'ति - न काशा वा अनुव्यवसायसिद्धा वा, साक्षिसिद्धा वा, स्वप्रतियोगिकभेदविषया ; भेदाधयः प्रतियोगिधी- जन्यत्वनियमेन प्रतियोगिधव्यक्तिभिन्नव्यक्तित्वावश्यकत्वा- पादको वाक्यार्थबोधो वाच्य एव । अतएवार्थवादाधिकरणे 'अन्त्य- योर्यथोक्त 'मिति सूत्रे तथोक्तम् । 'गुणवादस्तु' इति सूत्रेण च गौण्या वृत्त्या बाधितार्थकार्थवादानां वाक्यार्थधीः स्तुत्युपपादिकोत्तेति, तत्रेव प्रकृतेऽप्यप्रसक्तप्रतिषेधः । यथाच स्तुतिषीः प्रयोजनम्, तथा प्रकृतेऽपि सर्वाभिन्नब्रह्मबोधस्य भेदभ्रमसंशयसामान्यनिवृत्तिरिति भावः । न स्वप्रतियोगिक भेदविषयेति । स्वविषयेषु घटपटतद्भेदेषु' ज्ञाना- न्तरेषु च स्वभेदमनवगाहमानेत्यर्थः । भिन्नव्यक्तित्वेति । उत्तरवृत्ति-