पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ

अन्यथा तत्तत्पूर्वपक्षाभ्युपगमापत्तेः,

स्त्रीत्वविध्ययोगान्न गुणविधिः; किंतु प्राकरणिकानामेव दध्यादियागानां चित्रापदं नामधेयं विचित्रद्रव्यकत्व- रूपचित्रत्व 'रूढम् । इष्टयेति विशेष्याध्याहारात्स्त्रीलिङ्गता । एवमाज्यादि- बाक्येष्वपि संख्याद्रव्यादिपदानामसमस्तत्वेन तदर्थानां मिथोऽनन्वयात्, प्राप्तस्तोत्रानुवादेन द्रव्यसंख्याद्यनेकविधाने वाक्यभेदात्, एकविभ- कघर्थकारके नामार्थद्वयानन्वयेन तद्द्यविशिष्टकारक विध्ययोगात्, स्तोत्रे आज्यादिद्रव्यस्य करणत्वासम्भवेनोत्पत्तिवाक्ये द्रव्यविशिष्ट स्तोत्रविधि- मकीकृत्योक्तवाक्ये द्रव्यानुवादेन सङ्ख्याविधेरपि वक्तुमशक्यत्वात्, स्तोत्रदेश स्थापनस्य चाश्रुतत्वात्तद्दारकादृष्टार्थत्व कल्पने गौरवात्, स्तुति- गतऋक्सङ्ख्या रूपस्तोमवाचितद्धितान्तस्य पञ्चदशानीत्यादेरनुपपत्ते- ( रुत्पत्तिवाक्यगुणवाक्ययोराज्यादिपदं स्तोत्रनामधेयम् । अतएव ' यदा- जिमायंस्तदाज्यस्याज्यत्वं स इन्द्रोऽवेत अभिर्वा इदमग्र उद्घोष्यतीति अस्मिन् यज्ञे काष्ठां गच्छत' इत्यर्थवादे यानि स्तोत्राणि काष्ठां कृत्वा यस्माद्देवा आजिं गतास्तानि तस्मादाज्यानीत्यन्वाख्यानमुक्तम् । पञ्चदशानीत्यादिकं सङ्ख्यामात्रविधिरिति प्रथमचतुर्थे स्थितम् || आकाशाधिकरणेति । 'आकाश इति होवाच' इति श्रुते प्रथमत्वात्प्रधानत्वादाकाशं मुख्यमेव नः | तदानुगुण्येनान्यानि व्याख्येयानीति निश्चयः || 232 योश्चित्राकाशाद्यधिकरणेषु विहितप्राकरणिकपुंस्त्वावरुद्धे [ प्रथमः ' अस्य लोकस्य का गति' रिति प्रश्नोत्तररूपे आकाश इत्यत्र गतित्वेन प्रतिपाद्यतया प्राधान्यात्, 'सर्वाणि ह वा एतानि भूतान्या- काशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ती' त्यादीनां तु तद्विशेषण- तया गुणत्वात्, गुणे त्वन्याय्यकल्पनेति न्यायेन प्रधानानुसारेण गुणो 1 रूपचित्रत्वरूपचित्रत्व–क,

  • र्थकत्व-ग.

&