पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अद्वैतश्रुतेर्षाधीद्धारः 233 नेयः ; प्रथमावगतत्वेनानुपजातविरोध्याकाशपदस्य भूताकाशो मुख्योऽर्थ इति तदानुगुण्येनोपजातविरोधि चरमप्रतीतं पदान्तरं नेयम्, तस्माद्भूता- काशमेवोद्द्वीथे सम्पाद्योपास्यं न ब्रह्मेति प्राप्ते ॥ सामानाधिकरण्येन प्रश्नतत्प्रतिवाक्ययोः । पौर्वापर्यपरामर्शात्प्रधानत्वेऽपि गौणता || सर्वलोककारणस्य पृष्टत्वात्तदेवा काशशब्दार्थो न भूताकाशः ; तस्य स्वस्मिन्नकारणत्वात् । न चाकाशपदानुसारेण प्रश्नस्थं लोकेपद - माकाश कार्यपरमिति वाच्यम्; अनुपजातविरोधिलोकपदस्य उप- जातविरोधिनाकाशपदेनासङ्कोचात् । अपि च सर्वागि ह वेत्यत्र सर्वपदं सङ्कोच्यम्, एवकारोऽप्यसमञ्जसः, न खल्वाकाशमेव कारणं मूलका- रणपरिग्रहे तु ब्रह्मैव मूलकारणमिति स समञ्जसः । एवम् 'आकाश एवैतेभ्य: सर्वेभ्यां ज्यायानाकाशः परायणं स एष परोवरीयानुद्गीथ ' इत्यादिकं ब्रह्मण्येव समञ्जसमिति तदेवाकाशशब्दार्थः । यद्यपि शालावत्यादीनां संवाद छान्दोग्ये 'का साम्नो गतिरि' त्यादिप्रकृत्य ‘अपां का गतिरित्यसो लोक इति, न स्वर्ग लोकमतिनयंदिति शिलकप्रश्नशालावत्यप्रत्युत्तरोत्तरं अमुव्य लोकस्य का गतिरिति अयं लोक इति अस्य लोकस्य का गतिरिति न प्रतिष्ठां लोकमतिनये' दिति प्रवाहणप्रश्नशालावत्यप्रत्युत्तरे तदुत्तरं 'अन्तवद्वै किल ते शालावल्य सामेति प्रवाहणेनोक्त 'अस्य लोकस्य का गति' रिति शालावत्येन पृष्ठे 'आकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ति आकाशो ह्येवैतेभ्यः सर्वेभ्यो ज्यायानाकाशः परायणम् ' स एष परोवरीयानुद्गथिः स एषोऽनन्तः, परोवरीयो हास्य भवति, परोबरीयसा ह लोकान् जयति, य एतमेवं विद्वान् परोनरी यांसमुद्गीथमुपास्त' इति श्रुतम् तत्राति नयेोदित्य- ● ● , -