मिथ्यात्वश्रुत्युपपत्ति. 219 लक्षणत्वानुपपत्तेरभावात् । उपलक्षणत्वे ह्युपलक्ष्यसत्वमात्रं तन्त्रम्, न तु तस्य स्वरूपातिरिक्तत्वमपि ; गौरवात्, उपलक्ष्यताव- च्छेदकरूपाभावेऽपि स्वतोव्यावृत्तजातिवदुपलक्ष्यत्वसम्भवात् । अतएव न सप्रकारकत्वापत्तिः; काकवदित्यत्राप्युपलक्षणस्या- प्रकारत्वात्, किंतु स्वरूपातिरिक्तधर्मस्य तत्रोपलक्षणत्वेन सप्र- कारकत्वम्, इह तु तन्नेति वैषम्यम् | नचोपलक्षणवैय्यर्थ्यम्; अनर्थनिवृत्तिहेतुत्वेन द्वितीयाभाव द्वारकस्वरूपज्ञानस्योद्देश्यत्वात्, तस्य प्रागसिद्धत्वात् । न च मिथ्यात्वासिद्धयेष्टापत्तिः ; अवान्तर- उत्तृणत्वादे: । स्वतो व्यावृत्तेति । घट इत्यादिज्ञाने इतराविशे- पिताखण्डरूपेण भातघटत्वादीत्यर्थः । उपलक्ष्यत्वसम्भवात् सद्वि- ती यात्मकत्वधीविरोधिविषयतासम्भवात् । तथाच व्यावृत्ताकारता हि द्वेषेत्यादिना द्वितीयाभाववत्त्वायुपस्थितिद्वारकस्य निष्प्रकार कज्ञानस्थापि सद्वितीयात्मकत्वादिधीविरोधित्वेन व्यवस्थापितत्वात् प्रकृते अखण्डा- र्थकत्वमव्याहतमिति भावः । इह त्विति । स्वरूपनिर्विकल्पकस्यैव सद्वितीयात्मकत्वधीविरोधितया तज्जननद्वारा द्वितीयाभावज्ञानस्य सद्वि- तीयव्यावर्तकत्वस्य पर्यवसन्नत्वेनाद्वितीयत्वे उपलक्षणत्वस्य सम्भवा- दिति शेषः । अनर्थेति । सद्वितीयत्वज्ञानेत्यर्थः । द्वितीयाभावद्वारकेति । द्वितीयाभाववत्त्वेन ब्रह्मोपस्थितिद्वारकलक्षणाज्ञानाधीनेत्यर्थः । अवान्त- रेति । उक्तं हि शारीरकसंक्षेपे- परिच्छेदः] , सामानाधिकरण्यमत्र भवति प्राथम्यभागान्वयः पश्चादेव विशेषणेतरतया पश्चाद्विरोधोद्भवाः' । उत्पन्ने च विरोध एकरसके वस्तुन्यखण्डात्मके वृत्तिलक्षणया भवत्ययमिह ज्ञेयः क्रमः सूरिभिः ॥ भवात्-ग.
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७४६
दिखावट