पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ प्रथम: चोप- । तात्विकत्वांशस्यानुपजीव्यत्वात्, व्यावहारिकसत्वस्य जीव्यत्वाभात्यन्तासत्व कल्पनमित्यस्याप्युक्तप्रायत्वात् । ननु - श्रुतेस्तात्पर्य चैतन्यमात्रे वा, द्वितीयाभावविशिष्टे वा, तदुप- लाक्षते वा । नाद्यः; विश्वामिथ्यात्वासिद्धेरिष्टापत्तेः, तस्य स्वप्र- काशतया नित्यसिद्धत्वेन श्रुतिवैय्यर्थ्याच्च । न द्वितीयः; अखण्डार्थत्वहानात् । अतएव न तृतीयः; काकवदितिवडती- याभाववदित्यनेनापि सप्रकारकज्ञानजननेनाखण्डार्थत्वायोगात्, चिन्मात्रस्य नित्यसिद्धत्वेन तदन्यस्य च मुमुक्ष्वज्ञेयत्वेन काकेन संस्थानविशेषस्येव द्वितीयाभावेनोपलक्ष्यस्यान्यस्याभावा- तस्योपलक्षणत्वायोगाच्चेति – चेन; काकस्य संस्थानविशेष इव द्वितीयाभावस्य स्वरूपमेवोपलक्ष्यमित्युपलक्ष्याभावनिबन्धनोप- - 218 सव्याख्यायामद्वैतसिद्धो ङ्गीकारात्' । मिथ्यात्वश्रुतौ तु ' नेह नानास्ति किंचन' 'नेति नेति' इत्यादौ सर्वनाम्ना सर्वमानोपस्थितानां हि निषेधतात्पर्यस्य स्फुटत्वाद- लीकनिषेधम्य प्राप्तत्वादप्रयोजनकत्वाच्च न प्रत्यक्षाद्यसिद्धालीकमि- थ्यात्वपरत्वमिति विशेषात् ॥ ननु ~ श्रुतेः प्रत्यक्षाद्यननुरोधे विश्वस्य ख्यात्यन्यथानुपपत्त्य गम्यमसद्वैलक्षण्यमपि बाध्येते त्यत्यन्तासत्वं स्यात्तत्राह – व्यावहारिक- सत्वस्येति । उक्तप्रायत्वादिति । यच्चोपजीव्यमित्यादिनेत्यादिः । व्यावहारिकत्वोपजीव्य’तोक्तया अत्यन्तासत्वं नेत्यर्थादुक्तमित्यर्थः ॥ काकवदिति । यथा काकवन्तो देवदत्तगृहा इत्युक्ते उत्तृणत्व- रूपोपलक्ष्यतावच्छेदकप्रकारेण बोधः, तथा द्वितीयाभाववदित्यनेनापि किंचिदुपलक्ष्यतावच्छेदकरूपेण स इति भावः । संस्थानविशेषस्य 1 कारः -ग. 2 ख्यात्यन्यथानुपपत्ति-क. ग. - - 3 व्यावहारिसत्वोष जीव्य -क. ग.