पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ सामानाधिकरण्यमत्र पदयोर्ज्ञेयं तदीयार्थयोः संबन्धस्तु विशेषणेतरतया ताभ्यां सहास्यात्मनः । सम्बन्धोऽप्यथ लक्ष्यलक्षणतया विज्ञेय एवं बुधै- रेतान्यर्थपदानि बुद्धिपदवीमारोहणीयानि तु ॥ इति ॥ अत्र पदार्थानां विशिष्टानामभेदबोधोत्तरं विरोधस्फूर्त्या लक्षणा- ज्ञानेनाखण्डार्थबोधस्योक्तत्वादद्वितीयाभेदेन ब्रह्मणो बोधेऽवान्तरवाक्य- तात्पर्यम् ' । अथवाऽद्वितीयत्वेनाद्वितीयपदाद्ब्रह्मोपस्थितिलक्षणाज्ञानाs- पूर्वमवश्यमपेक्षिता । तथाचावान्तरवाक्यार्थानुभवरूपायां तस्यामेवावा- न्तरतात्पर्य स्वीकारेण ब्रह्माण' द्वितीयाभावानुभवसम्भवेन मिथ्यात्वसिद्धिः । एतेन प्रथम पदयोरेकार्थकत्वं समानविभक्तिकसाकांक्षत्वादिमत्पदयोर्भि- न्नार्थत्वासम्भवादित्यधिकारिणानुसन्धीयते, पश्चात्तदर्थयोरत्यन्ता भेदः, अन्यथोक्तैकार्थ्यासम्भवादित्यनुसन्धीयते, पश्चाद्विरोधादिकमित्युक्तश्लोक- योरभिप्रेतार्थ इत्याचार्यैरपि व्याख्यानात् । तत्र पदार्थत्वेन शक्य- लक्ष्यसाधारण्येन * पदार्थयोरभेद इति प्रतिसन्धानस्योक्तत्वादुक्तप्रतिसन्धा- नस्य तर्करूपत्वाच्च पदार्थतावच्छेदकरूपेण पदार्थयोरभेदप्रमायां कथ- मवान्तरतात्पर्योक्तिरित्यपास्तम्; सत्यज्ञानादिरूढपदार्थानां संसर्गप्रमायाः पूर्वमनङ्गीकारेऽप्यद्वितीयादियौगिकपदार्थप्रमाया आवश्यकत्वात्, अवा- न्तरवाक्यार्थबोधं विना महावाक्यार्थबोधासम्भवात् । अन्यथा ब्रह्मणि सद्वितीयत्वादिसंशयानिवृत्तावद्वितीयादिपदार्थषीपूर्वक वाक्यार्थबोधे संश- यत्वस्यौचित्यावर्जितत्वेन निश्चयत्वासम्भवात्, तर्क रूपाद्वितीयत्वज्ञानस्या- निश्चयत्वात्तत्तत्पदमुख्यार्थतावच्छेदकरूपेण निश्चयं विना तद्विशिष्ट- सम्बन्धरूपलक्षणा'ज्ञानासम्भवादुक्त प्रतिसन्धानस्यार्थीपत्त्यादिरूपत्वसम्भ- 220 ग. 1 न्तरतात्पर्यम्-ऋ. ख. 4 साधारणेन- क. ख. 2 णाब्रह्मणि - क. 5 लक्षण-ख. [प्रथमः 3 सिद्विदेव । तेन प्रथमं -