पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] मिथ्यात्वश्रुत्युपपत्तिः बाध्यत इति किं केन सङ्गतम् ? तदुक्तं टीकाकृद्भिः–“उत्पा- रूपेत्यर्थः । न बाध्यत इति । विचारकाले प्रपञ्चस्यं बाघेऽपि व्यवहार - कालाबाध्यत्वं न विहन्यत इत्यर्थः । 213 , वस्तुतस्तु तात्विकत्वेन प्रत्यक्षादर्निमित्तत्वेऽपि न प्रकृते उक्त- न्यायावतारः; सामान्यविषयकोक्तन्यायस्य विशेषविषयकेनाद्वैतश्रुति- तात्पर्यान्यथानुपपत्त्यादिना 'तदनन्यत्वमारम्भणशब्दादिभ्य' इत्या- दिन्यायेन, 'प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतमि' त्यादिस्मृत्या च बाघसम्भवात् । अतएव महाभाष्ये नदि ब्राह्मणीत्यादौ तन्नचायान- वतारात् तन्नचायानादरमाशङ्कय तन्नयाय आवश्यको दोषेषु तु प्रति- विघातव्यमित्युक्तम् । तत्र च 'एड्हस्वात्सम्बुद्धेः' इति सूत्रे गुणा- दित्यकृत्वा एहस्वादिति करणं ज्ञापयति, यदेतदन्यविषय एवोक्त- न्यायावतारः, यदि हि नदि ब्राह्मणीत्यादौ सन्निपातन्यायेन सम्बुद्धि- लोपबाघः, तदा गुणात्सम्बुद्धेरित्येव सूत्रं क्रियेत, एकार, ओकार, अकाररूपाद्गुणात्सम्बुद्धिलोपसम्भवात् । न हि ब्राह्मणीत्यादाविकारा- दिरूपा द्धस्वात्सम्बुद्धिलोपम्योक्तन्यायबाध्यत्वस्वीकारात् । एवं 'हलि - सवर्षोम्' ‘कष्टाय क्रमणे' इत्यादि सूत्राण्यपि तन्नयायाप्रवृत्तिज्ञापका- नीत्यर्थ इति कैय्यटः । तथा चोक्तसूत्रान्यथानुपपत्तिरिव विशेषविषय- कन्यायान्तरमप्युक्त न्यायं बाधत एव। किंचोपजीवकं नोपजीव्यविघा- तमित्येवोक्तन्यायः तस्य च बाघ स्फुट एव । लोके उपजीवकेन वन्ह्यादिना तृणादेर्विघातात् । अतएव अचि ह्रस्वश्च वा इत्यकृत्वा 'ङिति ह्रस्वश्च, वामि, ति सूत्रद्वयकरणं सन्निपातेत्यादिपरिभाषाया ज्ञापकमिति कौस्तुभे उक्तम् । तन्नन्यायस्य व्याभिचारित्वेऽपि पदनिष्प- त्यर्थ कचिदादर इति तत्र भावः । अन्यथा ज्ञापकानुसरणवैयर्थ्यात् । 1 नदि ब्राह्मणांति स्यान्.