पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

212 सव्याख्यायामद्वैतसिद्धौ [प्रथमः स्यैव सर्वनामस्थानस्य नुम्निमित्तत्वात्, न “लुमताङ्गस्ये" ति न लुमता लुप्तेऽङ्गकार्यनिषेधात् । तथाचालुप्तप्रत्ययत्वेन यत्र निमित्तता तत्र सन्निपातलक्षणन्यायावतारः, यत्र तु“प्रत्ययलोपे प्रत्ययलक्षण- मि " ति न्यायन लुप्तेऽपि प्रत्यये कार्य भवति, तत्रालुप्तत्ववि- शेषणनैरपेक्ष्येण प्रत्ययत्वमात्रेणैव निमित्तत्त्वान्न सन्निपातलक्षण- न्यायावतारः; प्रत्ययसद्भावस्य तत्रानुपजीव्यत्वात् । एवं स्थिते यद्यमिथ्याभूतत्वेन प्रत्यक्षादेर्निमित्तता स्यात्तदा प्रत्ययस्यालुप्त- त्वेन निमित्ततायामिव भवेदेत न्यायावतारः । प्रत्यक्षादेस्तु स्वरूपे- णैव निमित्तता स्वमाद्यथस्याप्यर्थक्रियाकारित्वदर्शनेन प्रागेवोप- पादिता । अतो यद्धाध्यते तात्विकत्वं तनोपजीव्यम्; यच्चोपजीव्यमर्थक्रियासामर्थ्यलक्षणव्यावहारिकप्रामाण्यं तच्च न त्यागसम्भवेन स्वभावनान्तत्वाक्षेपवैयर्थ्याच्च । लुमतेति । 'लुशब्दयुक्तेन ±लुक्झुलुपित्येषामन्यतमेनेत्यर्थः । अङ्गस्य “यस्मात्प्रत्ययावधिस्तदङ्ग- - मि" त्यनेन विहिताङ्गसंज्ञाकस्य प्रकृतेरिति यावत् । लुते विहितलोप- योग्ये । तेन लोपात्पूर्वमपि नामकार्यमिति ध्येयम् । लुप्तेऽपीति । अग्निविदित्यादौ लुप्तेऽपि किबादौ लुगादि कार्यमित्यर्थः । यद्यपि स्थानिवदादेश' इत्यादिनैव लुप्तप्रत्ययस्य निमित्तता, 'प्रत्ययलोप इत्यादिकं तु प्रत्ययमात्रनिमित्तकमेव कार्य प्रत्ययलोप इति नियमार्थम् । तेन बोभवीतीत्यादौ लुप्तप्रत्ययमात्रनिमित्तकयको वेपि नात्मनेपद- मित्यादि वैय्याकरणैरुक्तम्, तथापि नियमबोधकवाक्येन नियम्यप्रापकं स्थानीत्याद्येवाभिप्रेतमिति न दोषः । अर्थक्रियासामर्थ्येति । प्रवृत्त्यादि- कार्ये सामर्थ्यत्यर्थः । व्यावहारिकेति । व्यवहारकालाबाध्यविषयकत्व- 1 लुवर्णयुक्तेन- -ग. 2 लुक् लुलुबित्ये. इति भवितुमुचितम्. 3 त्प्रत्ययविधिस्तदादीत्यनेन इति स्यात् । 4 तुगादि - क. ख. " लुप्तयडो- 6 नियम्याप्रापकम्–क. ख. यस्मा- ख.