पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिथ्यात्वश्रुत्युपपत्तिः ननु – श्रुत्या अथ मिथ्यात्वश्रुत्युपपत्तिः एतदनुमानमेकमेवाद्वितीयमित्यादिश्रुतिरंप्यनुगृवाति । स्वस्वरूपस्वप्रामाण्यस्वयोग्यतादे मिथ्यात्वाबो- धनेन प्रत्यक्षादिसिद्धतत्सत्वोपजीवनेन च ब्रह्मेतरसकलमिथ्या. त्वासिद्धिः, 'सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्ये' ति न्यायेन प्रत्यक्षादिसिद्धघटादिमिथ्यात्वासिद्धिव, योग्यतादि- मिथ्यात्वबोधने च श्रुत्यर्थस्यातात्विकत्वापत्तिः; शाब्दबोधस्य शब्दतत्प्रामाण्ययोग्यतादिना समसत्ताकत्वनियमात्, न च- सदर्थस्वामदेवतावाक्ये व्यभिचारः; आप्तत्वापौरुषेत्वायोगेन तस्य शब्दत्वेन प्रामाण्यायोगान् किं तूपश्रुतिवत्तादृशशब्द- ज्ञानं लिङ्गत्वेन प्रमाणमिति – चेन; निर्दोषशब्दत्वेन तस्य शब्दविधयैव प्रामाण्यसंभवान्, आप्तत्वापौरुषेयत्वयोर्दोषाभाव एवोपक्षयात् व्यायाछुपस्थितिकल्पने गौरवात्, वक्तुः कल्पि- , - परिच्छेदः] 209* अथ मिथ्यात्वश्रुत्युपपत्तिः योग्यतादीति । बाघाभावरूपयोग्यतायास्तत्वविशिष्टरूपेण मिथ्यात्वबोधकशक्तिरूपा शब्दनिष्ठा वा सेति भावः । आदिनाs- काङ्क्षादेर्ब्रहणम् । आप्तेति । वाक्यार्थप्रमावदुक्तेत्यर्थः । प्रामाण्या- योगादिति । तथाच प्रमाणशब्दबोध्यत्वेन स्वबोधक शब्दादिसम सत्ताकत्वं साध्यमिति भावः । उपश्रुतिवदिति । एतत्कर्तव्यं न वेति सन्दिहानेन श्रयमाणस्यान्य कार्यत्वपरस्यावश्यमेतत्कार्यमित्यस्यान्यं प्रत्य- न्येनोक्तस्य वाक्यस्योपश्रुतित्वम् । तस्य सन्दिग्धप्रकृत कार्यकर्तव्यतायां शब्दतया यथा न प्रामाण्यम्; अतत्परत्वादाप्तत्वाद्यभावाच किंत्वनु- मापकतयाग्रमेन तथा बोधनात् तथोक्तवाक्यस्य सदर्थ इत्यर्थः । ADVAITA. VOL. II 14 9