पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वेतसिदो 210 [प्रथमः तत्वेऽपि तद्गतदोषस्यार्थसंवादेन कल्पयितुमशक्यत्वाञ्च । तथाच शब्दसमसत्ताकत्वस्य व्यभिचारात् योग्यतादिसमसत्ता कत्व- नियमसिद्धेरप्रयोजकत्वाच्च परोक्षत्वानित्यत्वाद्युपाधिसंभवाच्च श्रुत्या योग्यतादिसकलमिथ्यात्वबोधनेऽपि तदर्थस्य न मिथ्या - शब्दसमसत्ताकत्वस्य स्वबोधक शब्दसमसत्ताकत्वस्य | व्यभिचारात् प्रमाणशब्दबोध्यत्वं प्रत्यव्यापकत्वात् । नियमसिद्धेः व्याप्तिज्ञानस्य | अप्रयोजकत्वात् निश्चायकतर्का भावेन सन्दहरूपत्वेनानुमित्यनुपधायक- त्वात् । परोक्षत्वेति । यथाश्रुतं घटादौ साध्याव्यापकमतः साक्षि- स्वरूपान्यत्वरूपं परोक्षत्वं बोध्यम् । न च पक्षेतरत्वतुल्यतेति- वाच्यम्; उक्तोपाधिर्यदि साध्यव्यापकं न स्यात्तदा साक्षिणः स्वबोधक- योग्यतादिसमसत्ताकत्व स्यात्, तथाच तस्य बाध्यत्वं निःसाक्षिकं स्यादिति तर्केण व्यापकतानिश्चयाद्वाघोन्नीतपक्षेतरत्वतुल्यत्वात् । आत्म-' गुरुत्वान्यतरत्वाद्यवच्छिन्न साध्यव्यापकं यथाश्रुतं वा परोक्षत्वम् । अनि त्यत्वेति । नाशित्वेत्यर्थः । “अतोन्यदार्तमि" त्यादि श्रुत्या " यावद्वि- कारं तु विभागो लोकवदि"ति न्यायेन च गगनादेरपि नाशित्वान्न साध्या- व्यापकत्वम् । यत्तु – शब्दप्रामाण्या साधारणप्रयोजकवत्वं प्रकृते प्रमाण- शब्दत्वम्, तच्च न विषयाबाघमात्रम् ; तस्य प्रामाण्य मात्रे प्रयोजकत्वात्, शुकादिवाक्यसाधारण्याच्च, किंतु वाक्यार्थप्रमात्वबो आविषयादिमदुक्तत्व- मिति न स्वामवाक्यार्थे व्यभिचार इति–तत्तुच्छम् ; प्रमासामान्य इव प्रमाविशेषेऽपि विषयाबाघस्यैव लाघवेन हेतुत्वौचित्यात् । शुकादि- वाक्ये प्रमापकत्वस्येष्टत्वात् । सन्निपातेत्यादेः सन्निपातः संबन्धः स लक्षणं निमित्तं यस्य तादृशो विधिस्तद्विघातस्य स्वनिमित्त भूितसन्निपात- विघातस्य निमित्तं नेत्यर्थः । तथाच यथा शतानीत्यादौ शि सन्निपातं च तर्क - ख.